________________ (5) नैषधीयचरितम् :: प्रथम सर्गः ] [ 626 न केवलं प्राणिवधो वधो मम त्वदीक्षणाद्विश्वसितान्तरात्मनः / विहितं धर्मधनिबर्हणं विशिष्य विश्वासजुषां द्विषामपि / / 131 / / पदे पदे सन्ति भटा रणोद्भटा न तेषु हिंसारस एष पूर्यते / धिगीदृशं ते नपते ! कुविक्रम कृपाश्रये यः कृपणे पतत्रिणि / / 132 / / फलेन मूलेन च वारिभूरुहां मुनेरिवेत्थं मम यस्य वृत्तयः / त्वयाद्य तस्मिन्नपि दण्डधारिणा कथं न पत्या धरणो हरणीयते / / 133 / / इतीदृशैस्तं विरचय्य वाङ्मयैः ___ सचित्रवैलक्ष्ककृपं नप खगः / दयासमुद्रे स तदाशयेऽतिथी ___ चकार कारुण्यरसापगा गिरः / / 134 / / मदेकपुत्रा जननी जरातुरा नवप्रसूतिन रटा तपस्विनी / गतिस्तयोरेष जनस्तमर्दयन्त्रहो विधे ! त्वां करुणा रुणद्धि न // 135 / / मुहूर्तमानं भवनिन्दया दया . सखाः सखायः स्रवदश्रवो मम / निवृत्तिमेष्यन्ति परं दुरुत्तर स्त्वयैव मातः ! सुतशोकसागरः / / 136 / / मदर्थसंदेशमृणालमन्थरः प्रियः कियदुर इति त्वयोदिते।