SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ (5) नैषधीयचरितम् :: प्रथमः सर्गः ] कुतः परं भव्यमहो महीयसी तदाननस्योपमितौ दरिद्रता / / 24 / / स्वबालभारस्य तदुत्तमाङ्ग: समं चमर्येव तुलाभिलाषिणः / अनागसे शंसति बालचापलं पुनः पुनः पुच्छविलोलनच्छलात् / / 25 / / महीभृतस्तस्य च मन्मथश्रिया निजस्य चित्तस्य च तं प्रतीच्छया / द्विधा नृपे तत्र जगत्त्रयीभुवां नतध्रुवां मन्मथविभ्रमोऽभवत् / / 26 / / निमीलनभ्रंशजुषा दृशा भृशं निपीय तं यस्त्रिदशीभिरजितः / अमूस्तमभ्यासभरं विवृण्वते निमेषनिःस्वैरधुनापि लोचनैः / / 27 / / अदस्तदाकणि फलाढयजीवितं दृशोयं नस्तदवीक्षि चाफलम् / इति स्म चक्षुःश्रवसां प्रिया नले स्तुवन्ति निन्दन्ति हृदा तदात्मनः / / 28 / / विलोकयन्तीभिरजस्रभावना वलादमुं नेत्रनिमीलनेष्वपि / अलम्भि माभिरमूष्य दर्शने न विघ्नलेशोऽपि निमेषनिर्मितः / / 26 / / न का निशि स्वप्नगतं ददर्श तं जगाद गोत्रस्खलिते च का न तम् / 'तदात्मताध्यातधवा रते च का चकार वा न स्वमनोभवोद्भवम् / / 30 / /
SR No.004484
Book TitleKavyashatakam Mulam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages1014
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy