________________ [ काव्यषट्कं दूतद्रवद्रयचरणक्षतक्षमातलोल्लसद्बहुलरज़ोवगुण्ठितम् / युगक्षयक्षणनिरवग्रहे जगत्पयोनिधेर्जल इव मग्नमाबभौ / / 6 / / समुल्लसद्दिनकरवक्त्रकान्तयो .. रजस्वला: परिमलिताम्बरश्रियः / दिगङ्गनाः क्षणमविलोकनक्षमाः . . शरीरिणां परिहरणीयतां ययुः / / 61 / / निरीक्षितुं वियति समेत्य कौतुकात् .. पराक्रम समरमुखे महीभृताम् / रजस्ततावनिमिषलोचनोत्पल-' व्यथाकृति त्रिदशगणैः पलाय्यत / / 62 / / विषङ्गिणि प्रतिपदमापिबत्यपो ... हताचिरातिनि समीरलक्ष्मणि / शनैः शनैरुपचितपङ्कभारिकाः . पयोमुचः प्रययुरपेतवृष्टयः // 63 / / नभोनदीव्यतिकरधौतमूर्तिभि- .. वियद्गतैरनधिगतानि लेभिरे / चलच्चमूतुरगखुराहतोत्पत न्महीरजःस्नपनसुखानि दिग्गजैः / / 64 / / गजबजाक्रमणभरावनम्रया ... रसातलं यदखिलमानशे भुवा / . नभस्तलं बहुलतरेण रेणुना ततोऽगमत् त्रिजगदिवैकतां स्फुटम् / / 65 / / समस्थलीकृतविवरेण पूरिता . : ... . महीभृतां बलरजसा महागुहाः / रहस्त्रपाविधुरवधरतार्थिनां नभःसदामुपकरणीयतां ययुः // 66 / /