________________ [ काव्यषट्कं पयोमुचामभिपततां दिवि द्रुतं विपर्ययः परित इवातपस्य सः / समक्रमः समविषमेष्वथ क्षणात् क्षमातलं बलजलराशिरानशे // 46 / / ममो पुरः क्षणमिव पश्यतो महत्तनूदरस्थितभुवनत्रयस्य तत् / विशालतां दधति नितान्तमायते ____बलं द्विषां मधुमथनस्य चक्षुषि / / 47 / / भृशस्विदः पुलकविकासिमूर्तयो __रसाधिके मनसि निविष्टसाहसाः / मुखे युधः सपदि रतेरिवाभवन् - ससम्भ्रमाः क्षितिपचमूवधूगणाः // 48 / / ध्वजांशुकैवु वमनुकूलमारुतप्रसारितैः प्रसभकृतोपहूतयः / यदूनभि द्रुततरमुद्यतायुधाः क्रुधा परं रयमरयः प्रपेदिरे / / 46 // हरेरपि प्रति परकीयवाहिनी. रघिस्यदं प्रववृतिरे चमूचराः / विलम्बितं न खलु सदा मनस्विनो विधित्सतः कलहमवेक्ष्य विद्विषः / / 50 / / उपाहितैर्वपुषि निवातवर्मभिः ___स्फुरन्मणिप्रसृतमरीचिसूचिभिः / निरन्तरं नरपतयो रणाजिरे रराजिरे शरनिकराचिता इव // 51 // प्रथोच्चकर्जरठकपोतकन्धरा. तनूरुहप्रकरविपाण्डुरद्युतिः / 25 बलेश्चलच्चरणविधूतमुच्च रतनावलीरुदचरत क्षमारजः // 52 //