________________ 556 ] [ काव्यषटकं // 16 // षोडशः सर्गः॥ ( वैतालयवृत्तम् ) ... * दमघोषसुतेन कश्चन प्रतिशिष्ट: प्रतिभानवानथ / उपगम्य हरि सदस्यदः स्फुटभिन्नाथमुदाहरद्वचः / / 1 / / 5. अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः / भवतोऽभिमनाः समीहते सरुषः कर्तु मुपेत्य माननाम् / / 2 / / विपुलेन निपीड्य निर्दयं मुदमायातु नितान्तमुन्मनाः / प्रचुराधिगताङ्गनिर्वृति परितस्त्वां खलु विग्रहेण सः / / 3 / / प्रणतः शिरसा करिष्यते सकलैरेत्य समं धराधिपः / 10 तव शासनमाशु भूपति: परवानद्य यतस्त्वयैव सः / / 4 / / अधिवह्निपतङ्गतेजसो नियतस्वान्तसमर्थकर्मणः / तव सर्वविधेयवर्तिनः प्रणति बिभ्रति केन भूभृतः / / 5 / / जनतां भयशून्यधोः परैरभिभूतामवलम्बसे यतः / तव कृष्ण गुणास्ततो नरैरसमानस्य दधत्यगण्यताम् / / 6 / / 15 अहितादनपत्रपस्त्रसन्नतिमात्रोज्झितभीरनास्तिकः / विनयोपहितस्त्वया कुतः सदृशोऽन्यो गुणवानविस्मयः / / 7 / / कृतगोपवधूरतेनतो वृषमुने नरकेऽपि संप्रति / प्रतिपत्तिरधःकृतैनसो जनताभिस्तव साधु वर्ण्यते / / 8 / / विहितापचितिर्महीभृता द्विषतामाहितसाध्वसो बलैः / 20 भव सानुचरस्त्वमुच्चकैर्महतामप्युगरि क्षमाभृताम् / / 6 / / घनजालनिभर्दुरासदाः परितो नागकदम्बकैस्तव / नगरेषु भवन्तु वीथयः परिकीर्णा वनजैर्मुगादिभिः / / 10 / / सकलापिहितस्वपौरुषो नियतव्यापदवधितोदयः / रिपुरुन्नतधीरचेतसः सततव्याधिरनीतिरस्तु ते // 11 / /