________________ (4) शिशुपालवधम् :: पञ्चदशः सर्गः ] [ 553 विदतुर्यमुत्तममशेषपरिषदि नदीजधर्मजौ / यातु निकषमधियुद्धमसौ वचनेन किं भवतु साध्वसाधु वा / 65 / “अचिरान्मया सह गतस्य समरमुरगारिलक्ष्मणः / तीक्ष्णविशिखमुखपीतमसृक्पततां गणैः पिबतु सार्धमुर्वरा / 66 / 5 अभिधाय रूक्षमिति मा स्म गम इति पृथासुतेरिताम् / वाचमनुनयपरा स ततः सहसावकर्ण्य निरियाय संसदः / / 67 / / गृहमागताय कृपया च कथ ___ मपि निसर्गदक्षिणाः / क्षान्ति महितमनसो जननीस्व - सुरात्मजाय चुकुपुर्न पाण्डवाः // 6 // चलितं ततोऽनभिहतेच्छमवनिपति यज्ञभूमितः / तूर्णमथ ययुमिवानुययुर्दमघोषसुनुमवनीशसूनवः // 66 / / विशिखान्तराण्यतिपपात सपदि जवनैः स वाजिभिः / द्रष्टमलघुरभसापतिता वनिताश्चकार न सकामचेतसः // 70 / / 15 क्षणमीक्षितः पथि जनेन किमि दमिति जल्पता मिथः / प्राप्य शिबिरमविशङ्किमनाः सम ____नीनहद्रुतमनीकिनीमसौ |71 / / त्वरमाणशाकिसवेगवदनपवनाभिपूरितः / 20 शैलकटकतटभिन्नरवः प्रणनाद सानहनिकोऽस्य वारिंजः / 72 / जगदन्तकालसमवेतविषदविषमेरितारवम् / धीरनिजरवविलीनगुरुप्रतिशब्दमस्य रणतूर्यमावधि // 73 // सहसा ससम्भ्रमविलोलसकलजनतासमाकुलम् / स्थानमगमदथ तत्परितश्चलितोडुमण्डलनभःस्थलोपमाम्।७४। 25' दधतो भयानकतरत्वमुपगतवतः समानताम् / धूमपटलपिहितस्य गिरेः समवर्मयन्सपदि मेदिनीभृतः / / 75 //