________________ (4) शिशुपालवधम् :: पञ्चदशः सर्गः ] [551 इति वाचमुद्धतमुदीर्य सपदि सह वेणुदारिणा / सोढरिपुबलभरोऽसहनः स जहास दत्तकरतालमुच्चकैः // 39 // कटनापि चैद्यवचनेन विकृतिमगमन्न माधवः / सत्यनियतवचसं वचसा सुजनं जनाश्चलयितुं क ईशते // 40 / / 5 न च तं तदेति शपमानमपि यदुनपाः प्रचुक्रुधुः / शौरिसमयनिगृहीतधियः प्रभुचित्तमेव हि जनोऽनुवर्तते / / 4 / / .विहितागसो मुहुरलङ्घयनिजवचनदामसंयतः / तस्य कतिथ इति तत्प्रथमं मनसा समाख्यदपराधमच्युतः / 42 / स्मृतिवर्ल्स तस्य न समस्तमपकृतमियाय विद्विषः / 10 स्मर्तु मधिगतगुणस्मरणाः पटवो न दोषमखिलं खलूत्तमा / 43 / नृपतावधिक्षिपति शौरिमथ सुरसरित्सुतो वचः / स्माह चलयति भुवं मरुति क्षुभितस्य नादमनुकुर्वदम्बुधेः / 44 / अथ गौरवेण परिवादमपरिगणयंस्तमात्मनः / प्राह मुररिपुतिरस्करणक्षुभितः स्म वाचमिति जाह्नवीसुतः / / 15 विहितं मयाद्य सदसीदमपमृषितमच्युतार्चनम् / यस्य नमयतु स चापमयं चरणः कृतः शिरसि सर्वभूभृताम् / 46 / इति भीष्मभाषितवचोऽर्थमधिगतवतामिव क्षणात् / क्षोभमगमदतिमात्रमथो शिशुपालपक्षपृथिवीभृतां गणः / / 47 / / शितितारकानुमितताम्रनयनमरुणोकृतं क्रुधा / बाणवदनमुददीपि भिये जगतः सकीलमिव सूर्यमण्डलम् / / 48 / / प्रविदारितारुणतरोग्रनयनकुसुमोज्ज्वलः स्फुरन् / प्रातरहिमकरताम्रतनुविषजद्रुमोऽपर इवाभवद्रुमः / / 49 / / अनिशान्तवैरदहनेन विरहितवतान्तरार्द्रताम् / कोपमरुदभिहतेन भृशं नरकात्मजेन तरुणेव जज्वले // 50 // 25 अभिधित्सतः किमपि राहुवदनविकृतं व्यभाव्यत / ग्रस्तशशधरमिवोपलसत्सितदन्तपङ्क्ति मुखमुत्तमौजसः / 51 /