________________ 34 ] रघुवंशे पञ्चमः सर्गः / इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्यजः कुम्भमयोमुखेन / संयोक्ष्यसे स्वेन वपुर्महिम्ना तदेत्यवोचत्स तपोनिधिर्माम् / 55 / संमोचितः सत्त्ववता त्वयाहं शापाञ्चिरप्रार्थितदर्शनेन / प्रतिप्रियं चेद्भवतो न कुर्यां वृथा हि मे स्यात्स्वपदोपलब्धिः 56 संमोहनं नाम सखे ममास्त्रं प्रयोगसंहारविभक्तमन्त्रम् / . गान्धर्वमादत्स्व यतः प्रयोक्त न चारिहिंसा विजयश्च हस्ते 57 अलं ह्रिया मां प्रति यन्मुहूर्तं दयापरोऽभूः प्रहरन्नपि त्वम् / तस्मादुपच्छन्दयति प्रयोज्यं मयि त्वया न प्रतिषेधरौक्ष्यम् 58 तथेत्युपस्पृश्य पयः पवित्रं, सोमोद्भवायाः सरितो नसोमः / उदङ्मुखः सोऽस्त्रविदस्त्रमन्त्रं, ___ जग्राह तस्मानिगृहीतशापात् // 56 / / एवं तयोरध्वनि दैवयोगादासेदुषोः सख्यमचिन्त्यहेतु / एको ययौ चैत्ररथप्रदेशान्सौराज्यरम्यानपरो विदर्भान् / / 6 / / 15 तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः / प्रत्युज्जगाम ऋथकैशिकेन्द्रश्चन्द्रं प्रवृद्धोमिरिवोमिमाली / 61 / प्रवेश्य चैनं पुरमग्रयायी नीचैस्तथोपाचरदर्पितश्रीः / मेने यथा तत्र जनः समेतो वैदर्भमागन्तुमजं गृहेशम् / / 62 / / तस्याधिकारपुरुषः प्रणतः प्रदिष्टां, प्राग्द्वारवेदिविनिवेशितपूर्णकुम्भाम् / रम्यां रघुप्रतिनिधिः स नवोपकार्या, बाल्यात्परामिव दशां मदनोऽध्युवास / / 63 / / (वसंततिलका) तत्र स्वयंवरसमाहृतराजलोकं, कन्याललाम कमनीयमजस्य लिप्सोः / भावावबोधकलुषा दयितेव रात्रौ, निद्रा चिरेण नयनाभिमुखी बभूव / / 64 / / 20