________________ (4) शिशुपालवधम् :: त्रयोदशः सर्गः 1 [ 527 शनकैरथास्य तनुजालकान्तर स्फुरितक्षपाकरकरोत्कराकृति / पृथुफेनकूटमिव निम्नगापते मरुतश्च सूनुरघुवत्प्रकीर्णकम् // 20 / / विकसत्कलायकुसुमासितद्युते रलघूडपाण्डु जगतामधीशितुः / यमुनाह्रदोपरिगहंसमण्डलद्युति जिष्णु जिष्णुरभृतोष्णवारणम् // 21 / / पवनात्मजेन्द्रसुतमध्यवतिना नितरामरोचि रुचिरेण चक्रिणा / दधतेव योगमुभयग्रहान्तर स्थितकारितं दुरुधराख्यमिन्दुना // 22 / / वशिनं क्षितेरयनयाविवेश्वरं नियमो यमश्च नियतं यतिं यथा / विजयश्रिया वृतमिवार्कमारु तावनुसस्रतुस्तमथ दस्रयोः सुतौ // 23 / / मुदितैस्तदेति दितिजन्मनां _ रिपावविनीतसम्भ्रमविकासिभक्तिभिः / उपसेदिवद्भिरुपदेष्टरीव तै वृते विनीतमविनीतशासिभिः / / 24 / / गतयोरभेदमिति सैन्ययोस्तयो . रथ भानुजह नुतनयाम्भसोरिव / प्रतिनादितामरविमानमानकै नितरां मुदा परमयेव दध्वने // 25 / / - 25 ... मखमीक्षितुं क्षितिपतेरुपेयुषां परितः प्रकल्पितनिकेतनं बहिः /