________________ 524 ] [ काव्यषट्कं // 13 // त्रयोदशः सर्गः॥ यमुनामतीतमय शुश्रुवानमुं तपस स्तनून इति. नाधुनोच्यते / .. स यदाचलग्निजपुरादहनिशं नपते ___स्तदादि समचारि वार्तया // 1 / / यदुभतु रागमनलब्धजन्मनः प्रमदादमानिव पुरे महीयसि / सहसा ततः स सहितोऽनुजन्मभि र्वसुधाधिपोऽभिमुखमस्य * निर्ययौ // 2 // रभसप्रवृत्तकुरुचक्रदुन्दुभिध्वनिभि र्जनस्य बधिरीकृतश्रुतेः / समवादि वक्तृभिरभीष्टसङ्कथा प्रकृतार्थशेषमथ हस्तसंज्ञया // 3 // अपदान्तरं च परितः क्षिति क्षितामपतन्द्रतभ्रमितहेमनेमयः / जविमारुताञ्चितपरस्परोपम क्षितिरेणुकेतुवसनाः पताकिनः . / / 4 / / द्रुतमध्वनन्नुपरि पाणिवृत्तयः पणवा इवाश्वचरणक्षता भुवः / ननुतुश्च वारिधरधीरवारण ध्वनिहृष्टकूजितकला: कलापिन: // 5 // व्रजतोरपि प्रणयपूर्वमेकताम सुरारिपाण्डुसुतसैन्ययोस्तदा / रुरुषे विषाणिभिरनुक्षणम्मिथो मदमूढबुद्धिषु विवेकिता कुत: ?. / / 6 / /