________________ (4) शिशुपालवधम् :: द्वादशः सर्गः ] [ 511 उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिलसितानां ही विचित्रो विपाकः / 64 / क्षणमतुहिनधाम्नि प्रोष्य भूयः पुरस्ता दुपगतवति पाणिग्राहद्दिग्वधूनाम् / द्रुततरमुपयाति स्रसमानांशुकोऽसा वर्षपतिरिव नीचैः पश्चिमान्तेन चन्द्रः / / 65 / / प्रलयमखिलतारालोकमह्नाय नीत्वा श्रियमनतिशयश्रो: सानुरागां दधानः / . गगनसलिलराशि रात्रिकल्पावसाने - मधुरिपुरिव भास्वानेष एकोऽधिशेते / / 66 / / कृतसकलजगद्विबोधोऽवधूतान्धकारोदयः क्षयितकुमुदतारकश्रीवियोगं नयन्कामिनः / बहुतरगुणदर्शनादभ्युपेताल्पदोषः कृती ... तव वरंद करोतु सुप्रातमह्नामयं नायकः / 67 / (महामालिका) / / इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्रयके प्रत्यूषवर्णनो नामैकादशः सर्गः / / 11 / / 15 . 20 // 12 // बादशः सर्गः॥ ( वंशस्थवृत्तम् ) इत्थं रथाश्वेभनिषांदिनां प्रगे गणो नपाणामथ तोरणाद्वहिः / प्रस्थानकालक्षमवेषकल्पना कृतक्षणक्षेपमुदैवताच्युतम् // 1 //