________________ (4) शिशुपालवधम् :: नवमः सर्गः ] [ 476 * रुचिभर्तुरस्य विरहागमादिति सन्ध्ययापि सपदि व्यगमि // 17 // पतिते पतङ्गमृगराजि निज प्रतिबिम्बरोषित इवाम्बुनिधौ। अथ नागयूथमलिनानि जगत् परितस्तमांसि परितस्तरिरे // 18 / / व्यसरन्नु भूधरगुहान्तरतः पटलं बहिर्बहलपङ्करुचि / दिवसावसानपटुनस्तमसो बहि१० . रेत्य चाधिकमभक्तः गुहाः / / 16 / / किमलम्बताम्बरविलग्ननमधः किमवर्धतोर्ध्वमवनीतलतः / विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन निरधारि तमः / / 20 / / स्थगिताम्बरक्षितितले परि. - तस्तिमिरे जनस्य दृशमन्धयति / दघिरे रसाञ्जनमपूर्वमतः प्रियवेश्मवम सुदृशो ददृशुः // 21 / / अवधार्य कार्यगुरुतामभवन्न - भयाय सान्द्रतमसन्तमसम् / सूतनोः स्तनौ च दयितोपगमे . . तनुरोमराजिपथवेपथवे // 22 / / ददृशेऽपि भास्कररुचाह्नि न यः . स तमी तमोभिरभिगम्य तताम् / - 25 . द्युतिमग्रहीद्ग्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः / / 23 / /