________________ 454 ] [ काव्यषट्कं 5 . // 7 // सप्तमः सर्गः॥ ( पुष्पिताग्रा वृत्तम् ) अनुगिरमृतुभिर्वितामानामथ स विलोकयितु वनान्तलक्ष्मीम् / निरगमदभिराद्धमाहतानां. भवति महत्सु न निष्फलः प्रयासः / / 1 / / दधति सुमनसो वनानि बह्वी युवतियुता यदवः प्रयातुमीषुः / मनसिशयमहाऽस्त्रमन्यथामी न कुसुमपञ्चकमप्यलं विसोढुम् // 2 // अवसरमधिगम्य तं हरन्त्यो हृदयमयत्नकृतोज्ज्वलस्वरूपाः / अवनिषु पदमङ्गनास्तदानीं __न्यदधत विभ्रमसम्पदोऽङ्गनासु // 3 // नखरुचिरचितेन्द्रचापलेखं ___ ललितगतेषु गतागतं दधाना / मुखरितवलयं पृथौ नितम्बे भुजलतिका मुहुरस्खलत्तरुण्याः / / 4 / / अतिशयपरिणाहवान् वितेने __ बहुतरमर्पितरत्नकिङ्किणीकः / अलधुनि जघनस्थलेऽपरस्या ध्वनिमधिकं कलमेखलाकलापः // 5 // गुरुनिबिडनितम्बबिम्बभारा क्रमणनिपीडितमङ्गनाजनस्य / .