________________ (4) शिशुपालवधम् :: पञ्चमः सर्गः ] [ 441 गणः / हेम्नः स्थलीषु परितः परिवृत्त्य वाजी धुन्वन् वपुः प्रविततायत केशपङ्क्तिः / ज्वालाकणारुणरुचा निकरेण रेणोः ___ शेषेण तेजस इवोल्लसता रराज // 55 // दन्तालिकाघरणनिश्चलपाणियुग्म मोदितो हरिरिवोदयशैलमूर्ध्नः / स्तोकेन नाक्रमत वल्लभपालमुच्चैः श्रीवृक्षकी पुरुषकोन्नमितानकायः // 56 / / रेजे जनैः स्नपनसान्द्रनरार्द्रमूर्ति वैरिवानिमिषदृष्टिभिरीक्ष्यमाणः / श्रोसन्निधानरमणीयतरोऽश्व उच्चै रुच्चैःश्रवा जलनिधेरिव जातमात्रः / / 57 / / प्रश्रावि भूमिपतिभिः क्षणवीतनिद्रे रश्नन्पुरो हरितकं मुदमादधानः / ग्रीवाग्रलोलकलकिङ्किणिकानिनाद मिश्रं दधद्दशनचचुरशब्दमश्वः / / 58 // उत्खाय दर्पचलितेन सहैव रज्ज्वा कौलं प्रयत्नपरमानवदुर्ग्रहेण / आकुल्यकारि कटकस्तुरगेणं तूर्ण मश्वेति विद्रुतमनुद्रवताश्वमन्यम् / / 56 / / अव्याकुलं प्रकृतमुत्तरधेयकर्म धाराः प्रसाधयितुमव्यतिकीर्णरूपाः / सिद्धं मुखे नवसु वीथिषु कश्चिदश्वं वल्गाविभागकुशलो गमयाम्बभूव // 60 / / 25 . मुक्तास्तृणाहि परितः कटकं चरन्त ___ स्त्रुटयद्वितानतनिकाव्यतिषङ्गभाजः /