________________ उतुर्थः सर्गः / [ 25 स सेनां महतीं कर्षन्पूर्वसागरगामिनीम् / / बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः // 32 // त्याजितैः फलमुत्खातैर्भग्नैश्च बहुधा नपैः / तस्यासीदूल्बणो मार्गः पादपैरिव दन्तिनः / / 33 / / 5 पौरस्त्यानेवमाक्रामस्तांस्ताञ्जनपदाञ्जयी / प्राप तालीवनश्याममुपकण्ठं महोदधेः / / 34 / / अनम्राणां समूद्धर्तु स्तस्मात्सिन्धुरयादिव / आत्मा संरक्षितः सुह्म वत्तिमाश्रित्य वैतसीम् // 35 // वङ्गानत्खाय तरसा नेता नौसाधनोद्यतान् / 10 निचखान जयस्तम्भान्गङ्गास्रोतोन्तरेषु सः / / 36 / / ग्रापादपद्मप्रणताः कलमा इव ते रघुम् / फलैः संवर्धयामासुरुत्खातप्रतिरोपिताः / / 37 / / स तीर्वा कपिशां सैन्यैर्धद्धद्विरदसेतुभिः / उत्कलादर्शितपथः कलिङ्गाभिमुखो ययौ / / 38 / / 15 स प्रतापं महेन्द्रस्य मूनि तीक्ष्णं न्यवेशयत् / अङकुशं द्विरदस्येव यन्ता गम्भीरवेदिनः / / 36 / / प्रतिजग्राह कालिङ्गस्तमस्त्रैर्गजसाधनः / पक्षच्छेदोद्यतं शकं शिलावर्षीव पर्वतः / / 40 / / द्विषां विषह्य काकुत्स्थस्तत्र नाराचंदुर्दिनम् / 20 सन्मङ्गलस्नात इव प्रतिपेदे जवश्रियम् // 41 / / ताम्बूलीनां दलैस्तत्र रचितापानभूमयः / नारिकेलासवं योधाः शात्रवं च पपुर्यशः / / 42 / / गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः / श्रियं महेन्द्रनाथस्य जहार न तु मेदिनीम् / / 43 / / 25 ततो वेलातटेनैव फलवत्पूगमालिना / अगस्त्याचरितामाशामनाशास्यजयो ययौ // 44 / /