________________ (3) किरातार्जुनीयम् :: षोडशः सर्गः ] [ 371 रराज सर्पावलिरुल्लसन्ती तरङ्गमालेव नभोर्णवस्य // 38 / / निःश्वासधूमैः स्थगितांशुजालं फणावतामुत्फरणमण्डलानाम् / गच्छन्निवास्तं वपुरभ्युवाह विलोचनानां सुखमुष्णरश्मिः // 36 / / प्रतप्तचामीकरभासुरेण . दिश: प्रकाशेन पिशङ्गयन्त्यः / निश्चक्रमुः प्राणहरेक्षणानां ज्वाला महोल्का इव लोचनेभ्यः // 40 // आक्षिप्तसंपातमपेतशोभ-. मुह्नि धुमाकुलदिग्विभागम् / वृतं नभो भोगिकुलैरवस्थां - परोपरुद्धस्य पुरस्य भेजे // 41 // तमाशु चक्षुःश्रवसां समूह मन्त्रेण तार्योदयकारणेन / नेता नयेनेव परोपजापं 'निवारयामास पतिः पशूनाम् // 42 // प्रतीघ्नतीभिः कृतमीलितानि धुलोकभाजामपि लोचनानि / गरुत्मतां संहतिभिविहायः क्षणप्रकाशाभिरिवावतेने // 43 / / ततः सुपर्णव्रजपक्षजन्मा. नानागतिर्मण्डलयञ्जवेन। जरत्तणानीव वियन्निनाय वनस्पतीनां गहनानि वायुः // 44 / / 25