________________ (3) किरातार्जुनीयम् :: पञ्चदशः सर्गः ] [363 महेषजलधौ शत्रोतमाना दुरुत्तरे / प्राप्य पारमिवेशानमाशश्वास पताकिनी // 32 / / स बभार रणापेतां चमू पश्चादवस्थिताम् / पुरःसूर्यादपावृत्तां छायामिव महातरुः // 33 / / 5 मुञ्चतीशे शराजिष्णौ पिनाकस्वनपूरितः / दध्वान ध्वनयन्नाशाः स्फुटन्निव धराधरः // 34 / / तद्गणा ददृशुर्भीमं चित्रसंस्था इवाचलाः / विस्मयेन तयोर्युद्धं चित्रसंस्था इवाचलाः // 35 / / (द्विचतुर्थयमकम् ) 10 परिमोहयमाणेन शिक्षालाघवलीलया। जैष्णवी विशिखश्रेणी परिजह पिनाकिना // 36 / / अवद्यन्पत्रिणः शंभोः सायकैरवसायकैः / पाण्डवः परिचक्राम शिक्षया रणशिक्षया // 37 / / (पाद्यन्तयमकम् ) 15 चारचुञ्चुश्चिरारेची चञ्चच्चीररुचा रुचः / चचार रुचिरश्चारु चारैराचारचञ्चुरः // 38 / / (द्वयक्षरः ) स्फुरत्पिशङ्गमौर्वीकं धुनानः स बृहद्धनुः / / धृतोल्कानलयोगेन तुल्यमंशुमता बभो / / 36 / / पार्थबाणा: पशुपतेरावत्रुविशिखावलीम् / पयोमुच इवारन्ध्राः सावित्रीमंशुसंहतिम् / / 40 / / शरवृष्टि विधूयोर्वी मुदस्तां सव्यसाचिना / रुरोध मार्गणैर्मागं तपनस्य त्रिलोचनः / / 41 / / तेन व्यातेनिरे भीमा भीमार्जनफलाननाः। 25 न नानुकम्प्य विशिखाः शिखाधरजवाससः / / 42 / / ( शृङ्खलायमकम् )