________________ (3) किरातार्जुनीयम् :: चतुर्दशः सर्गः ]. [ 355 तिरोहितश्वंभ्रनिकुञ्जरोधसः . समश्नुवानाः सहसा तिरिक्तताम् / किरातसैन्यैरपिधाय रेचिता ___ भूवः क्षणं निम्नतयेव भेजिरे // 33 // पृथूरुपर्यस्तबृहल्लताततिर्ज वानिलाघूर्णितशालचन्दना / गणाधिपानां परितः प्रसा ___रिणी वनान्यवाञ्चीव चकार संहतिः // 34 / / ततः सदर्प प्रतनुं तपस्यया मदस्र तिक्षाममिवैकवारणम् / 10 परिज्वलन्तं निधनाय भूभृतां दहन्तमाशा इव जातवेदसम् 35 अनादरोपात्तधृतैकसायकं जयेऽनुकूले सुहृदीव सस्पृहम् / शनैरपूर्णप्रतिकारपेलवे निवेशयन्तं नयने बलोदधौ / / 36 / / निषण्णमापत्प्रतिकारकारणे शरासने धैर्य इवानपायिनी। अलकनीयं प्रकृतावपि स्थितं. निवातनिष्कम्पमिवापगापतिम् // 37 / / उपेयुषीं बिभ्रतमन्तकद्युति. वधाददूरे पतितस्य दंष्ट्रिणः / पुरः समावेशितसत्पशुं द्विजैः पति पशूनामिव हूतमध्वरे // 38 / / निजेन नीतं विजितान्यगौरवं गभीरतां धैर्यगुणेन भूयसा / वनोदयेनेव घनोरुवीरुधा समन्धकारीकृतमुत्तमाचलम् / / 36 // महर्षभस्कन्धमनूनकन्धरं बृहच्छिलावप्रघनेन वक्षसा /