SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ (3) किरातार्जुनीयम् :: चतुर्दशः सर्गः ] [ 353 असिः शरा वर्म धनश्च नोच्चकै• विविच्य किं प्रार्थितमीश्वरेण ते / अथास्ति शक्तिः कृतमेव याच्या न दूषितः शक्तिमतां स्वयंग्रहः // 20 // सखा स युक्तः कथितः कथं त्वया ___ यदृच्छयाऽसूयति यस्तपस्यते / गुणार्जनोच्छ्रायविरुद्धबुद्धयः प्रकृत्यमित्रा हि सतामसाधवः // 21 // वयं क्व वर्णाश्रमरक्षणोचिताः . क्व जातिहीना मगजीवितच्छिदः / सहापकृष्टैर्महतां न संगतं भवन्ति गोमायुसखा न दन्तिनः / / 22 / / परोऽवजानाति यदज्ञताजड स्तदुन्नतानां न विहन्ति धीरताम् / समानवीर्यान्वयपौरुषेष यः __ करोत्यतिक्रान्तिमसौ तिरस्क्रिया / / 23 / / यदा विगृह्णाति हतं तदा यशः करोति मैत्रीमथ दूषिता गुणाः / स्थिति समीक्ष्योभयथा परीक्षकः ... करोत्यवज्ञोपहतं पृथग्जनम् / / 24 / / मया मगान्हन्तुरनेन हेतुना विरुद्धमाक्षेपवचस्तितिक्षितम् / शरार्थमेष्यत्यथ लप्स्यते गति . . शिरोमणि दृष्टिविषाज्जिघक्षतः // 25 / / इतीरिताकूतमनीलवाजिनं जयाय दूतः प्रतितय॑ तेजसा / 25
SR No.004484
Book TitleKavyashatakam Mulam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages1014
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy