________________ (3) किरातार्जुनीयम् :: त्रयोदश. सर्गः ) [ 346 जन्मवेषतपसां विरोधिनी मा कृथाः पुनरमूमपक्रियाम् / आपदेत्युभयलोकदूषणी वर्तमानमपथे हि दुर्मतिम् / / 64 / / यष्टुमिच्छसि पितृन्न सांप्रतं संवृतोऽचिंचयिषुर्दिवौकसः / दातुमेव पदवीमपि क्षमः . किं मृगेऽङ्ग विशिखं न्यवीविशः / / 65 / / सज्जनोऽसि विजहीहि चापलं सर्वदा क इव वा सहिष्यते / वारिधीनिव युगान्तवायवःक्षोभयन्त्यनिभता गुरूनपि / / 66 / / अस्त्रवेदविदयं महीपतिः पर्वतीय इति माऽवजीगणः / 10 गोपितु भूवमिमां मरुत्वता शैलवासमनुनीय लम्भितः / 67 / तत्तितिक्षितमिदं मया मुनेरित्यवोचत वचश्चमपतिः / बाणमत्रभवते निजं दिशनाप्नुहि त्वमपि सर्वसंपदः / / 68 / / आत्मनीनमुपतिष्ठते गुणाः / संभवन्ति विरमन्ति चापदः / इत्यनेकफलभाजी मा स्म भूर्थिता कथमिवार्यसंगमे / / 66 / / दृश्यतामयमनोकहान्तरे तिग्महेतिपतनाभिरन्वितः / साहिवीचिरिव सिन्धुरुद्धतो भूपति: समयसेतुवारितः // 70 // सज्यं धनुर्वहति योऽहिपतिस्थवीयः स्थेयाञ्जयन्हरितुरंगकेतुलक्ष्मीम् / अस्यानुकूलयमति मतिमन्ननेन सख्या सुखं समभियास्यसि चिन्तितानि 71 / 25 / इति भारविकृतौ महाकाव्ये किरातार्जुनीये त्रयोदशः सर्गः // 14 //