________________ 336 ] .. [ काव्यषटकं भिन्नजलधिजलनादगुरु ध्वनयन्दिशां विवरमन्धकान्तकः / / 32 / / बदरीतपोवननिवास निरतमवगात मान्यथा / धातुरुदयनिधने जगतां नरमंशमादिपुरुषस्य गां गतम् / / 33 / / द्विषतः परासिसिषुरेष सकलभुवनाभिताविनः / क्रान्तकुलिशकरवीर्यबला न्मदुपासनं विहितवान्महत्तपः // 34 / / अयमच्युतश्च वचनेन सरसिरुहजन्मनः प्रजाः / पातुमसुरनिधनेन विभू भुवमभ्युपेत्य मनुजेषु तिष्ठतः / / 35 / / सुरकृत्यमेतदवगम्य __ निपुणमिति मूकदानवः / हन्तुमभिपतति पाण्डुसुतं त्वरया तदत्र सह गम्यतां मया / / 36 / / विवरेऽपि नैनमनिगूढ ____मभिभवितुमेष पारयन् / पापनिरतिरविशङ्कितया विजयं व्यवस्यति वराहमायया / / .37 / / निहते विडम्बितकिरात नृपतिवपुषा रिपो मया। मुक्तनिशितविशिखः प्रसभं मृगयाविवादमयमाचरिष्यति / / 38 / /