________________ 320 ] ___.. [ काव्यषट्कं जन इव न धृतेश्चचाल जिष्णु . नहि महतां सुकरः समाधिभङ्गः // 23 / / धृतबिसवलयावलिर्वहन्ती कुमुदवनकदुकूलमात्तबारणा / शरदमलतले सरोजपाणौ धनसमयेन वधूरिवाललम्बे / / 24 / / समदशिखिरुतानि हंसनादैः कुमुदवनानि कदम्बपुष्पवृष्ट्या / . श्रियमतिर्शायनी समेत्य जग्मुर्गुणमहतां महते गुणाय योगः / / 25 / / सरजसमपहाय केतकीनां . __ प्रसवमुपान्तिकनीपरेणुकीर्णम् / प्रियमधुरसनानि षट्पदाली __ मलिनयति स्म विनीलबन्धनानि / / 26 / / मुकुलितमतिशय्य बन्धुजीवं धृतजलबिन्दुषु शाद्वलस्थलीपु / अविरलवपुषः सुरेन्द्रगोपा विक चपलाशचयश्रियं समीयुः / 27 / 15 अविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्धवाहः / गुणमसमयजं चिराय लेभे विरलतुषारकणस्तुपारकाल: / 28 / __निचयिनी लवलीलताविकासे जनयति लोध्रसमीरणे च हर्षम् / विकृतिमुपययौ न पाण्डुसूनु श्चलति नयान्न जिगीषतां हि चेतः / / 26 / / कतिपयसहकारपुष्परम्य स्तनुतुहिनोऽल्पविनिद्रसिन्दुवारः / सुरभिमुखहिमागमान्तशंसी ____ समुपययौ शिशिरः स्मरैकबन्धुः / / 30 / / 25 कुसुमनगवनान्युपैतुकामा किसलयिनीमवलम्ब्य चूतयष्टिम् / क्वणलिकुलनूपुरा निरासे नलिनवनेषु पदं वसन्तलक्ष्मीः 31