________________ 300 ] _ [ काव्यषटक इति प्रियं कञ्चिदुपैतुमिच्छती . पुरोऽनुनिन्ये निपुणः सखीजनः / / 8 / / समुन्नतैः काशदुकूलशालिभिः / / परिक्वरणत्सारसपङ्क्तिमेखलैः / / प्रतीरदेशैः स्वकलत्रचारुभि विभूषिताः कुञ्जसमुद्रयोषितः / / 9 / / विदूरपातेन भिदामुपेयुष श्च्युताः प्रवाहादभितः प्रसारिणः / प्रियाङ्कशीताः शुचिमौक्तिकत्विषो वनप्रहांसा इव वारिबिन्दवः / / 10 / / सखीजनं प्रेम गुरूकृतादरं निरीक्षमाणा इव नम्रमूर्तयः / / स्थिरद्विरेफाञ्जनशारितोंद रैविसारिभिः पुष्पविलोचनैर्लताः / / 11 / / उपेयुषीणां बृहतीरधित्यका . मनांसि जह्न सुरराजयोषिताम् / कपोलकाषैः करिणां मदारुण रुपाहितश्यामरुचश्च चन्दनाः / / 12 / / स्वगोचरे सत्यपि चित्तहारिणा विलोभ्यमानाः प्रसवेन शाखिनाम् / नभश्चराणामुपकर्तुमिच्छतां प्रियाणि चक्रुः प्रणयेन योषितः / / 13 / / प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता / न किञ्चिदूचे चरणेन केवलं . लिलेख बाष्पाकुललोचना भुवम् / / 14 / /