________________ (3) किरातार्जुनीयम् :: तृतीयः सर्गः ] [ 267 तुल्याद्विभागदिव तन्मनोभि दुःखातिभारोऽपि लघुः स मेने // 33 // धैर्येण विश्वास्यतया महर्षे स्तीवादरातिप्रभवाच्च मन्योः / वीर्यं च विद्वत्सु सुते मघोनः, स तेषु न स्थानमवाप शोकः / / 34 / / तान् भूरिधाम्नश्चतुरोऽपि दूरं, ___ विहाय यामानिव वासरस्य / एकौघभूतं तदशर्म कृष्णां विभावरी ध्वान्तमिव प्रपेदे / / 35 / / तुषारलेखाऽऽकुलितोत्पलाभे, पर्यश्रुणी मङ्गलभङ्गभीरुः। / अगूढ भावाऽपि विलोकने, सा न लोचने मीलयितुं विषेहे // 36 / / प्रकृत्रिमप्रेमरसाभिरामं रामापितं दृष्टिविलोभि दृष्टम् / मनःप्रसादाञ्जलिना निकामं जग्राह पाथेयमिवेन्द्रसूनुः / 37 / धैर्यावसादेन हृतप्रसादा वन्यद्विपेनेव निदाघसिन्धुः / निरुद्धबाष्पोदयसन्नकण्ठमुवाच कृच्छादिति राजपुत्री / / 38 / / -- मग्नां द्विषच्छद्मनि पङ्कभूते, . सम्भावनां भूतिमिवोद्धरिष्यन् / प्राधिद्विषामा तपसां प्रसिद्धे . रस्मद्विना मा भृशमुन्मनीभूः / / 36 / / यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवत्तितुं वा / निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः / 40 / 25 . लोकं विधात्रा विहितस्य गोप्तुं, क्षत्रस्य मुष्णन् वसु जेत्रमोजः /