________________ (3) किरातार्जुनीयम् :: तृतीयः सर्गः ] [ 263 व्यक्तोदितस्मितमयूखविभासितोष्ठ स्तिष्ठन्मुनेरभिमुखं स विकीर्णधाम्नः / तन्वन्तमिद्धमभितो गुरुमंशुजालं लक्ष्मीमुवाह सकलस्य शशाङ्कमूर्तेः // 56 / / 5 // इति महाकविश्रीभारविकृतौ महाकाव्ये किरातार्जुनीये द्वितीयः सर्गः // 2 // // 3 // अथ तृतीयः सर्गः॥ ततः शरच्चन्द्रक राभिरामैरुत्सपिभिः प्रांशुमिवांशुजालैः / बिभ्राणमानीलरुचं पिशङ्गीर्जटास्तडित्वन्तमिवाम्बुवाहम् / / 1 10 प्रसादलक्ष्मीं दधतं समग्रां वपुःप्रकर्षेण जनातिगेन / प्रसह्य चेतःसु समासजन्तमसंस्तुतानामपि भावमार्द्रम् / / 2 // अनुद्धताकारतया विविक्तां तन्वन्तमन्तःकरणस्य वृत्तिम् / माधुर्यविस्रम्भविशेषभाजा कृतोपसंभाष मिवेक्षितेन // 3 / / धर्मात्मजो धर्मनिबन्धिनीनां प्रसूतिमेनःप्रणुदां श्रुतीनाम् / हेतु तदभ्यागमने परीप्सुः सुखोपविष्टं मुनिमाबभाषे / / 4 / / अनाप्तपुण्योपचयैर्दुरापा फलस्य निर्धू तरजाः सवित्री। तुल्या भवद्दर्शनसंपदेषा वृष्टेदिवो वीतबलाहकायाः / / 5 / / अद्य क्रियाः कामदुघाः ऋतूनां सत्याशिषः संप्रति भूमिदेवाः / आ संसृतेरस्मि जगत्सु जातस्त्वय्यागते यद् बहुमानपात्रम् // 6 20 श्रियं विकर्षत्यपहन्त्यघानि श्रेयः परिस्नौति तनोति कीर्तिम् / संदर्शनं लोकगुरोरमोघं तवात्मयोनेरिव किं न धत्ते // 7 // श्च्योतन्मयूखेऽपि हिमद्युतौ मे न निर्वृतं निर्वृतिमेति चक्षुः / समुज्झितज्ञातिवियोगखेदं त्वत्सन्निधावुच्छ्वसितीव चेतः // 8 निरास्पदं प्रश्नकुतूहलित्वमस्मास्वधीनं किमु निःस्पृहाणाम् / 25 तथापि कल्याणकरी गिरं ते मां श्रोतुमिच्छा मुखरीकरोति / /