________________ काव्यषट्कम् तमातिथ्यक्रियाशान्तरपक्षोभपरिश्रमम् / .. पप्रच्छ कुशलं राज्ये राज्याश्रममुनि मुनिः // 58 // अथाथवंनिधेस्तस्य विजितारिपुरः पुरः / अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः // 59 // 5 उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे। दैवीनां मानुषीणां व प्रतिहर्ता त्वमापदाम् / / 60 // . तव मन्त्रकृतो मन्त्रैर्दुरात्प्रशमितारिभिः। प्रत्यादिश्यन्त इव में हष्टलक्ष्यभिदः शराः / / 61 // हवीरावजितं होतस्त्वया विधिवदग्निषु / वृष्टिर्भवति सस्यानामवग्रह विशोषिणाम् // 62 / / पुरुषायुषजोविन्यो निरातङ्का निरीतयः / यन्मदीयाः प्रजास्तस्य हेतुस्त्वद्ब्रह्मवर्चसम् // 63 / / त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना / सानुबन्धाः कथं न स्युः संपदो मे निरापदः // 64 // 15 किंतु वध्वां तवैतस्यामहष्टसदृशप्रजम् / न मामवति . सद्वीपा रत्नसूरपि मेदिनी // 65 // नूनं मत्तः पर वश्याः पिण्डविच्छेदशिनः / न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः // 66 // मत्परं दुर्लभं मत्वा नूनमावजितं मया / पयः पूर्वः स्वनिःश्वासैः कवोष्णमुपभुज्यते // 67 / / सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः / प्रकाशश्चाप्रकाशश्च लोकालोक इवाचल: / / 68 // लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् / . संततिः शुद्धवंश्या हि परवेह च शर्मणे " 69 // 25 तया होनं विधाता कथं पश्यन्न दूयसे / सिक्तं स्वयमिव स्नेहाद्वन्ध्यमाश्रमवृक्षकम् / / 70 //