________________ (2) कुमारसंभवं :: पञ्चदशः सर्गः ] [237 / / 4 / / भुजं समुत्क्षिप्य परेभ्य प्रात्मनो ऽभिधानमुच्चैरभितो न्यवेदयन् / / 48 / / पुरोगतं दैत्य चमूमहार्णवं दृष्ट्वा परं चुक्षुभिरे महासुराः / पुरारिसूनोनयनककोणके ममुर्भटास्तस्य रणेऽवहेलया / / 46 / / द्विषदल त्रासविभीषिताश्चमू दिवौकसामन्धकशत्रुनन्दनः / अपश्यदुद्दिश्य महारणोत्सवं प्रसादपीयूषधरेण चक्षुषा / / 50 / / उत्साहिताः शक्तिधरस्य दर्शना न्मृवे महेन्द्रप्रमुखा मखाशनाः / ग्रहं मधे जेतुमरीनरीरम न्न कस्य वीर्याय वरस्य संगतिः / / 51 / / परस्परं वज्रधरस्य सैनिका द्विषोऽपि योद्ध स्वकरोद्धतायुधाः / वैतालिकश्राविततारविक्रमा भिधानमीयुविजयैषिणो रणे / / 52 / / सङ्ग्रामं प्रलयाय संनिपततो वेलामतिक्रामतो वृन्दारासुरसैन्यसागरयुगस्याशेषदिग्व्यापिनः / कालातिथ्यभुजो बभूव बहलः कोलाहलः क्रोषणः शैलोत्तालतटीविघट्टनपटुब्रह्माण्ड कुक्षिभरः / / 53 / / (शार्दूल०) 25 / / इति श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये सुरा सुरसैन्यसधट्टो नाम पञ्चदशः सर्गः / / 15 / /