________________ 234 ] [ काव्वषट्कं निवार्यमाणैरभितोऽनुयायिभि ग्रहीतुकामैरिव तं मुहुर्मुहुः / अपाति गधैरभि मौनिमाकुलै भविष्यदेतन्मरणोपदेशिभिः / / 26 / / सद्यो निकृत्ताञ्जनसोदरद्युति फणामणिप्रज्वलदंशुमण्डलम् / निर्यद्विषोल्कानलगर्भपूत्कृतं . ध्वजे जनस्तस्य महाहिमैक्षत / / 30 / / रथाश्वकेशावलिकर्णचामरं / __ ददाह बाणासनबाणबाणधीन् / अकाण्डतश्चण्डतरो हुताशनस्त स्यातनुस्यन्दनधूर्यगोचरः / / 31 / / इत्याद्यरिष्टैरशुभोपदेशिभि विहन्यमानोऽप्यसुरः पुनः पुनः / यदा मदान्धो न गतान्न्यवर्तता म्बरात्तदाभून्मरुतां सरस्वती / / 32 / / मदान्ध मा गा भुजदण्डचण्डिमा वलेपतो मन्मथहन्तृसूनुना। सुरैः सनाथेन पुरंदरादिभिः समं समन्तात्समरं विजित्वरैः / / 33 / / गुहोऽसुरैः षड्दिनजातमात्रको निदाघधामेव निशातमोभरैः / . विषह्यते नाभिमुखो हि संगरे / कुतस्त्वया तस्य समं विरोधिता / / 34 / / अभ्रंलिहैः शृङ्गशतैः समन्ततो . दिक्चक्रवालैः स्थगितस्य भूभृतः /