________________ 224 ] [ काव्यषट्कं धननिरुच्छ्वासमभूदनन्तरं / दिङ्मण्डलं व्योमतलं महीतलम् // 16 / / सुरारिलक्ष्मीपरिकम्पहेतवो __ दिक्चक्रवालप्रतिनादमेदुराः / नभोन्तकुक्षिभरयो घनाः स्वना, निहन्यमानैः पटहैवितेनिरे // 17 / / प्रमथ्यमानाम्बुधिर्जितर्जनैः सुरारिनारीगणगर्भपातनैः / नभश्चमूधूलिकुलैरिवाकुलं . ररास गाढं पटहप्रतिस्वनैः // 18 / / क्षुण्णं रथैर्वाजिभिराहतं खुरैः - करीन्द्रकर्णैः परितः प्रसारितम् / धूतं ध्वजैः काञ्चनशैलजं रजो वातैर्हतं . व्योम समारुहत्क्रमात् / / 19 / / खातं खुरै रथ्यतुरंगपुंगवै रुपत्यकाहाटकमेदिनीरजः। गतं दिगन्तान्मुखरैः समीरणैः सुविभ्रमं भूरि बभार भूयसा / / 20 / / अधस्तथोवं पुरतोऽथ पृष्ठतो ___ऽभितोऽपि चामीकररेणुरुच्चकैः / चमूषु सर्पन्मरुदाहतोऽहर नवोनसूर्यस्य च कान्तिवैभवम् . / / 21 / / बलोद्धृतं काञ्चनभूमिजं रजो बभौ दिगन्तेषु नभःस्थले स्थितम् / अकालसंध्याघनरागपिङ्गलं . घनं घनानामिव वृन्दमुद्यतम् // 22 / /