________________ 214 ] [ काव्यषट्कं रोमालिभिः स्वर्गपतिर्बभासे पुष्पोत्कराकीर्ण इवाम्रशाखी // 23 / / दृष्ट्वा सहस्रण दृशां महेशमभूत्कृतार्थोऽतितरां महेन्द्रः / सर्वाङ्गजातं तदथो विरूपमिव प्रियाकोपकरं विवेद // 24 // 5 ततः कुमारं कनकाद्रिसारं पुरंदरः प्रेक्ष्य धृतास्त्रशस्त्रम् / महेश्वरोपान्तिकवर्तमानं शत्रोर्जयाशां मनसा बबन्ध / / 2 / / श्रीनीलकण्ठ धुपतिः पुरोऽस्ति त्वयि प्रणामावसरं प्रतीच्छन् / सहस्रनेत्रेऽत्र भव त्रिनेत्र दृष्ट्या प्रसादप्रगुणो महेश / / 26 / / इति प्रबद्धाञ्जलिरेत्य नन्दी निधाय कक्षामभि हेमवेत्रम् / 10 प्रसादपात्रं पुरतो भविष्णुरथ स्मरारातिमवाच वाचम् / 27 / पुरा सुरेन्द्रं सुरसङ्घसेव्यं त्रिलोकसेव्यस्त्रिपुरासुरारिः / प्रीत्या सुधासारनिधारिणेव ततोऽनुग्राह विलोकनेन / / 28 / किरीटकोटिच्युतपारिजातपुष्पोत्करैणानमितेन मूर्ना / स्वगैकवन्द्यो जगदेकवन्धं तं देवदेवं प्रणनाम देवः / / 26 / / 15 अनेकलोकैकनमस्क्रियाहं महेश्वरं तं त्रिदशेश्वरः सः / भक्त्या नमस्कृत्य कृतार्थतायाः पात्रं पवित्रं परमं बभूव / 30 / सुभक्तिभाजामधि पादपीठं प्रान्तक्षिति नम्रतरैः शिरोभिः / ततः प्रणेमुः पुरतो गणानां गणाः सुराणां क्रमतः पुरारिम् 31 गणोपनीते प्रभुणोपदिष्ट: शुभासने हेममये पुरस्तात् / प्रापोपविश्य प्रमुदं सुरेन्द्रः प्रभुप्रसादो हि मुदे न कस्य / / 32 / / क्रमेण चान्येऽपि विलोकनेन संभाविताः सस्मितमीश्वरेण / उपाविशंस्तोषविशेषमाप्ता दृग्गोचरे तस्य सुराः समग्राः / 33 / अथाह देवो बलवैरिमुख्यान्गीर्वाणवर्गान्करुणाईचेताः / कृताञ्जलीकानसुराभिभूतान्ध्वस्तश्रियः श्रान्तमुखानवेक्ष्य 34 25 अहो बतानन्तपराक्रमाणां दिवौकसो वीरवरायुधानाम् / हिमोदबिन्दुग्लपितस्य किं यः पद्मस्य दैन्यं दधते मुखानि / 35 / 20