________________ (2) कुमारसंभवं :: सप्तमः सर्गः ] [ 185 एकैव मूर्तिबिभिदे-त्रिधा सा सामान्यमेषां प्रथमावरत्वम् / विष्णोर्हरस्तस्य हरिः कदाचिद्वेधास्तयोस्तावपि धातुराद्यौ 44 तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गविनीतवेषाः / दृष्टिप्रदाने कृतनन्दिसंज्ञास्तद्दर्शिताः प्राञ्जलयः प्रणेमुः / / 4 / / 5 कम्पेन मूर्ध्नः शतपत्रयोनि वाचा हरि वृत्रहणं स्मितेन / आलोकमात्रेण सुरानशेषान्संभावयामास यथाप्रधानम् / 46 / तस्मै जयाशीः ससृजे पुरस्तात्सप्तर्षिभिस्तान्स्मितपूर्वमाह / विवाहयज्ञे विततेऽत्र यूयमध्वर्यवः पूर्ववृता मयेति / / 47 / / विश्वावसुप्राग्रहरैः प्रवीणैः संगीयमानत्रिपुरावदानः / 10 अध्वानमध्वान्तविकारलङ्घयस्ततार ताराधिपखण्डधारी 48 . खे खेलगामी तमुवाह वाहः सशब्दचामीकर किंकिणीकः / तटाभिघातादिव लग्नपङ्के धुन्वन्मुहुः प्रोतघने विषाणे / 49 / स प्रापदप्राप्तपराभियोग नगेन्द्रगुप्तं नगरं मुहूर्तात् / पुरोविलग्नहरदृष्टिपातैः सुवर्णसूत्ररिव कृष्यमाण: / / 50 / / 15 तस्योपकण्ठे घननीलकण्ठः कुतूहलादुन्मुखपौरदृष्टः / स्वबाणचिह्नादवतीर्य मार्गादासन्नभूपृष्ठमियाय देवः // 51 / / तमृद्धिमद्वन्धुजनाधिरूढे न्दैगजानां गिरिचक्रवर्ती / / प्रत्युज्जगामागमनप्रतीतः प्रफुल्लवृक्षैः कटकैरिव स्वैः / / 52 / / वर्गावुभौ देवमहीधराणां द्वारे पुरस्योद्धटितापिघाने। 20 समीयतुर्दूरविसपिघोषौ भिन्नैकसेतू पयसामिवौघौ / / 53 / / ह्रीमानभूभूमिधरो हरेण त्रैलोक्यवन्येन कृतप्रणामः / पूर्व महिम्ना स हि तस्य दूरमावर्जितं नात्मशिरो विवेद / 54 / स प्रीतियोगाद्विकसन्मुखश्रीर्जामातुरग्रसरतामुपेत्य / प्रावेशयन्मन्दिरमृद्धमेनमागुल्फकीर्णापणमार्गपुष्पम् / / 55 / / 25 तस्मिन्मुहूर्ते पुरसुन्दरीणामोशानसंदर्शनलालसानाम् / प्रासादमालासु बभूवुरित्थं त्यक्तान्यकार्याणि विचेष्टितानि 56