________________ 164 ] . [ काव्यषटकं मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाघरपत्रशोभिना। तुषारवृष्टिक्षतपद्मसंपदां सरोजसंधानमिवाकरोदपाम् // 27 // स्वयं विशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः / तदप्यपाकीर्णमतः प्रियंवदां ___ वदन्त्यपर्णेति च तां पुराविदः / / 28 / / मृणालिकापेलवमेवमादिभि व्रतैः स्वमङ्गं ग्लपयन्त्यहनिशम् / तपः शरीरैः कठिनैरुपार्जितं .. तपस्विनां दूरमधश्चकार सा // 26 / / सुराः समुद्वीक्ष्य नगेन्द्रकन्यया ____ कृतं तपः शंभुवशक्रियाक्षमम् / ययाचिरे तं प्रणिपत्य दुःखिताः पति चमूनां सुतमाजिहेतुम् // 1 // (प्र) अथाजिनाषाढधरः प्रगल्भवा ग्ज्वलन्निव ब्रह्ममयेन तेजसा / विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्ध: प्रथमाश्रमो यथा / / 30 / / तमातिथेयी बहुमानपूर्वया ___सपर्यया प्रत्युदियाय पार्वती / भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः / / 31 / / विधिप्रयुक्तां परिगृह्य सत्क्रियां ___ परिश्रमं नाम विनीय च क्षणम् / उमां स पश्यन्नृजुनैव चक्षुषां प्रचक्रमे वक्तुमनुज्झितक्रमः / / 32 / /