________________ 138 ] [ काव्यषट्के (1) रघुवंशम् बाढमेष दिवसेषु पार्थिवः कर्म साधयति पुत्रजन्मने / इत्यदर्शितरुजोऽस्य मन्त्रिणः शश्वदूचुरघशङ्किनीः प्रजाः / 52 / स त्वनेकवनितासखोऽपि सन्पावनीमनवलोक्य संततिम् / वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुमत्यगात् / / 53 // 5 तं गृहोपवन एव संगताः पश्चिमऋतुविदा पुरोधसा।। रोगशान्तिमपदिश्य मन्त्रिणः संभृते शिखिनि गूढमादधुः / 54 / तैः कृतप्रकृतिमुख्यसंग्रहैराशु तस्य सहधर्मचारिणी। साधु दृष्टशुभगर्भलक्षणा प्रत्यपद्यत नराधिपश्रियम् / / 55 / / तस्यास्तथाविधनरेन्द्रविपत्तिशोका दुष्णविलोचनजलैः प्रथमाभितप्तः / निर्वापितः कनककुम्भमुखोज्झितेन वंशाभिषेकविधिना शिशिरेण गर्भः // 56 / / (वसन्त०) तं भावार्थं प्रसवसमयाकाङ्क्षिणीनां प्रजाना मन्तर्गुढं क्षितिरिव नभोबीजमुष्टि दधाना / मौलैः सार्धं स्थविरसचिवहेमसिंहासनस्था राज्ञी राज्यं विधिवदशिषद्भर्तु रव्याहताज्ञा 57 ' (मन्दाक्रान्ता) // इति महाकविकालिदासकृतौ रघुवंशे महाकाव्ये 20. अग्निवर्णशृङ्गारो नामैकोनविंशः सर्ग // 16 / / ************ * // समाप्तं रघुवंशम् // MKXXXXXXXXX** ak:*Ke