________________ रघुवंशे षोडशः सर्गः ] [ 116 दग्ध्वापि देहं गिरिशेन रोषा त्खण्डीकृता ज्येव मनोभवस्य / / 51 / / मनोशंगन्धं सहकारभर्गु पुराणशीधुं नवपाटलं च / संबन्धता कामिजनेषु दोषाः सर्वे निदाघावधिना प्रमृष्टाः / 52 / 5 जनस्य तस्मिन्समये विगाढ़े बभूवतुद्वौं सविलेषकान्तौ / तापापनोदक्षमपादसेवौ स चोदयस्थौ नृपतिः शशी च // 53 / / अथोमिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः / विहर्तुमिच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव / 54 / स तीरभूमौ विहितोपकार्यामानायिभिस्तामपकृष्टनकाम् / 10 विगाहितु श्रीमहिमानुरूपं प्रचक्रमे चक्रधरप्रभावः / / 55 / / सा तीरसोपानपथावतारादन्योन्य केयूरविघट्टिनीभिः / सनूपुरक्षोभपदाभिरासीदुद्विग्नहंसा सरिदङ्गनाभिः / / 56 / / परस्पराभ्युक्षणतराणां तासां नृपो मज्जन रागदर्शी / नौसंश्रयः पार्श्वगतां किरातीमुपात्तवालव्यजनां बभाषे / 57 / पश्यावरोधैः शतशो मदीयैविगाह्यमानो गलिताङ्गरागैः / संध्योदयः साभ्र इवैष वर्णं पुष्यत्यनेकं सरयूप्रवाहः / / 58 / / विलुप्तमन्तःपुरसुन्दरीणां यदञ्जनं नौलुलिताभिरद्भिः / तद्वध्नतीभिर्मदरागशोभां विलोचनेषु प्रतिमुक्तमासाम् / 5 / एता गुरुश्रोणिपयोधरत्वादात्मानमुद्वोढुमशक्नुवत्यः / - 20 गाढाङ्गदैर्बाहुभिरप्सु बालाः क्लेशोत्तरं रागवशात्प्लवन्ते 60 अमी शिरीषप्रसवावतंसाः, प्रभ्रंशिनो वारिविहारिणीनाम् / पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलाष्छलयन्ति मीनान् // 61 // 25 आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीक रेष / पयोधरोत्सर्पिषु शीर्यमाणाः संलक्ष्यते न छिदुरोऽपि हारः 62 15