________________ रघुवंशे चतुर्दशः सर्गः ] [ 105 तवोरुकीतिः श्वशुरः सखा मे सतां भवोच्छेदकरः पिता ते / धुरि स्थिता त्वं पतिदेवतानां किं तन्न येनासि ममानुकम्प्या / / 74 / / 5 तस्विसंसर्गविनीतसत्त्वे तपोवने वीतभया वसास्मिन् / इतो भविष्यत्यनघप्रसूतेरपत्यसंस्कारमयो विधिस्ते / / 75 / / प्रशून्यतीरां मुनिसंनिवेशैस्तमोपहन्त्री तमसा वगाह्य / तत्सकतोत्सङ्गबलिक्रियाभिः संपत्स्यते ते मनसः प्रसादः / 76 / पुष्पं फलं चार्तवमाहरन्त्यो बीजं च बालेयमकृष्ट रोहि / 10 विनोदयिप्यन्ति नवाभिषङ्गामुदारवाचो मुनिकन्यकास्त्वाम् / पयोघटैराश्रमबालवक्षान्संवर्धयन्ती स्वबलानरूपैः / असंशयं प्राक्तनयोपपत्तेः स्तनंधयप्रीतिमवाप्स्यसि त्वम् / / 78 / / अनुग्रहप्रत्यभिनन्दिनीं तां वाल्मीकिरादाय दयार्द्रचेताः / सायं मृगाध्यासितवेदिपावं स्वमाश्रमं शान्तमृगं निनाय / 79 / 15 तामर्पयामास च शोकदीनां तदागमप्रीतिषु तापसीष / निविष्टसारां पितृभिहिमांशोरन्त्यां कलां दर्श इवौषाधीष / ता इङ्गुदीस्नेहकृतप्रदीपमास्तीर्णमेध्याजिनतल्पमन्तः / तस्यै सपर्यानुपदं दिनान्ते निवासहेतोरुटजं वितेरुः / / 81 / / तत्राभिषेकप्रयता वसन्ती प्रयुक्तपूजा विधिनातिथिभ्यः / 20 बन्येन सा वल्कलिनी शरीरं पत्युः प्रजासंततये बभार / / 82 / / अपि प्रभुः सानुशयोऽधुना स्यात्किमुत्सुकः शक्रजितोऽपि हन्ता। शशंस सीतापरिदेवनान्तमनुष्ठितं शासनमग्रजाय / / 83 / / बभूव रामः सहसा सबाष्पस्तुषारवर्षीव सहस्यचन्द्रः / कौलीनभीतेन गृहान्निरस्ता न तेन वैदेहसुता मनस्तः / / 84 / / 25 निगृह्य शोकं स्वयमेव धीमान्वर्णाश्रमावेक्षण जागरूकः / स भ्रातृसाधारणभोगमृद्धं राज्यं रजोरिक्तमनाः शशास / 85 /