________________ 98 ] . [ काव्यषट्के (1) रघुवंशम् तेषु क्षरत्सु बहुधा मदवारिधाराः शैलाधिरोहणसुखान्युपलेभिरे ते / / 74 / / सानुप्लवः प्रभुरपि क्षणदाचराणां भेजे रथान्दशरथप्रभवानुशिष्टः / मायाविकल्परचितैरपि ये तदीय __न स्यन्दनैस्तुलितकृत्रिमभक्तिशोभाः / / 75 / / भूयस्ततो . रघुपतिविलसत्पताक मध्यास्त कामगति सावरजो विमानम् / दोषातनं बुधबृहस्पतियोगदृश्य __स्तारापतिस्तरलविद्युदिवाभ्रवृन्दम् / / 76 / / तत्रेश्वरेण जगतां प्रलयादिवोर्वी वर्षात्ययेन रुचमभ्रघनादिवेन्दोः / रामेण मैथिलसुतां दशकण्ठकृच्छा त्प्रत्युद्धतां धृतिमती भरतो ववन्दे / / 77 / / लङ्केश्वरप्रणतिभङ्गदृढव्रतं त ___ द्वन्द्यं युगं चरणयोर्जनकात्मजायाः / ज्येष्ठानुवृत्तिजटिलं च शिरोऽस्य साधो रन्योन्यपावनमभूदुभयं समेत्य // 78 / / क्रोशाधं प्रकृतिपुरःसरेण गत्वा काकुत्स्थः स्तिमितजवेन पुष्पकेण / शत्रुघ्नप्रतिविहितोपकार्यमार्यः साकेतोपवनमुदारमध्युवास / / 76 / / / / इति महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये दण्डकाप्रत्यागमनो नाम त्रयोदशः सर्गः // 13 / /