________________ रघुवंशे द्वादशः सगः ] स मारुतिसमानीप्तमहौषधिहतव्यथः / लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः / / 78 / / स नादं मेघनादस्य घनुश्चेन्द्रायुधप्रभम् / मेधस्येव शरत्कालो न किंचित्पर्यशेषयत् / / 76 / / 5 कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः / रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः / / 80 / / अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान् / रामेषुभिरितीवासौ दीर्घनिद्रां प्रवेशितः / / 81 / / इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु / / रजांसि समरोत्थानि तच्छोणितनदीष्विव / / 82 / / निर्ययावथ पौलस्त्य पुनयुद्धाय मन्दिरात् / अरावणमरामं वा जगदद्येति निश्चितः / / 83 / / रामं पदातिमालोक्य लंकेशं च वरूथिनम् / हरियुग्यं रथं तस्मै प्रजिघाय पुरंदरः / / 84 / / 15 तमाधूतध्वजपटं व्योमगङ्गोमिवायुभिः / देवसूतभुजालम्बी जैत्रमध्यास्त राघवः // 85 / / मातलिस्तस्य माहेन्द्रमामुमोच तनुच्छदम् / यत्रोत्पलदल क्लैब्यमस्त्राण्यापुः सुरद्विषाम् / / 86 / / अन्योन्यदर्शनप्राप्तविक्रमावसरं चिरात् / 20 रामरावणयोर्यु द्धं चरितार्थमिवाभवत् / / 87 / / भुजमू?रुबाहुल्यादेकोऽपि धनदानुजः / ददृशे ह्ययथापूर्वो मातृवंश इव स्थितः / / 88 / / जेतारं लोकपालानां स्वमुखैरचितेश्वरम् / रामस्तुलितकैलासमराति बह्वमन्यत / / 86 / / 25 तस्य स्फुरति पौलस्त्यः सीतासंगमशंसिनि / निचखानाधिकक्रोधः शरं सव्येतरे भुजे // 10 //