________________ // 14 / / अं क) (प-शषसाः शिट् / अनुस्वारविसर्गजिह्वामूलीयोपध्मानीयशषसाः शिट्संज्ञा, / // 15 // तुल्यस्थानास्यप्रयत्नः स्वः / समानस्थानप्रयत्नो वर्ण स्वसंज्ञः, अवर्णकवर्गहविसर्गजिह्वामूलीयानां कण्ठः, इवर्णचवर्गयशानां तालु, ऋवर्णटवर्गरषाणां मूर्धा, लवर्णतवर्गलसानां दन्ताः, उवर्णपवर्गोपध्मानीयानामोष्ठौ, एऐ कण्ठतालु, ओऔ कण्ठोष्ठं, वो दन्तोष्ठयः, अणनमा अनुनासिकाच, शषसहा ऊष्माणः, इति स्थानानि / स्पृष्टः प्रयत्नो वर्याणाम् , ईषत्स्पृष्टःअन्तः स्थानाम्, ईषद्विवृत ऊष्मणां, विवृतः स्वराणाम्, इत्यास्यप्रयत्नः / / // 16 / / अप्रयोगीत् / कथितोऽपि यो न दृश्यते कार्य स इत्संज्ञः, तस्य च लोपः / / / 17 / / अनन्तः पञ्चम्याः प्रत्ययः . पञ्चमीतः कृतः प्रत्ययसंज्ञो यदि न तत्रान्तशब्दप्रयोगः / .. // इति संज्ञाप्रकरणम् // 1 //