________________ व श्रीसिरोही नगरात् जावालं प्रति प्रागतेन विदुषा जैनाचार्य श्रीमद्विजयसुशीलसूरीश्वरेण विरचिता सुशीलनाममाला संस्कृतवाङ्मयरूपः कोशो मया दृष्टः / कोशेऽस्मिन् षड्विभागाः सन्ति / अस्याच नाममालायां वहूनां-एतेषु शब्दानां व्युत्पत्तिरपि समाविष्टा, इयं च - अतीवपयोगिनी / विशेष रुपेण कृदन्तानां तद्धितपदानां प्रयोगश्च व्युत्पत्यनुसारेण कृतः। एतदपि अतीव समीचीनम् उल्लेखनीयञ्चास्ति। कोशेऽस्मिन् अनेक शब्दानां पर्यायवाचिनः शब्दाः वैधानिकरूपेण संग्रथिताः, ते सर्वेषां कृते ज्ञान सम्पत्त्य प्रतीवोपयोगिनः सन्ति। अध्यात्मवादिनां कृते तु कोशोऽयम् अतीव शोभनः उपादेयश्च अस्ति। जगत्यस्मिन् नानाविधाः कोशाः सन्ति, तेषु सर्व प्रथमः अमरकोशः अपरश्व श्रीहेमचन्द्राचार्य कृतः अभिधानचिन्तामणि कोशः, उभयो मध्ये सुशीललाममालाख्य