________________ चतुर्थस्तिर्यगविभागः 36 अभय-ऽममृणाल' ञ्च, नलद मिष्टकापथम् // 2081 // सेव्यं तथाऽवदाह' च, ख्यातं लघुलयं' पुनः / नामान्येतानि मन्यन्ते, सेव्यस्य विबुधैः खलु // 2082 // वीरतरं च वीरणं', नामापि कथ्यते पुनः / ॐ ह्रीबेरनामानि * केशाम्बुनाम' चोदीच्यं, ह्रीबेरं वालकं जलम् // 2083 // बहिष्ठं चापि प्रसिद्धं, केशजलं क्वचिद् भवेत् / . * प्रपुन्नाटनामानि * प्रपुन्नाट:' प्रपुन्नाड.२, प्रपुन्नाल स्तथैव च // 2084 // पद्माट: प्रपुनाड इच, प्रपुनालः प्रपुनडः / उरणाख्यश्च दद्रुघ्नो', दद्र्धन' श्चक्रमर्दक: 1 // 2085 // एडगज'२ स्तथैव स्यादेलगज 3 श्च व्याहृतौ / नामान्येतानि कथ्यन्ते, प्रपुन्नाटस्य पण्डित // 2086 // . * कुसुम्भनामानि * . लट्वा' वह्नि शिखं चैव, कुसुम्भं कमलोत्तरम् / महारजनं नामाऽपि, कथ्यते कुसुम्भस्य वै // 2087 / / ... .. * लोध्रनामानि * लोध्रो' रोध्र स्तिरीट' श्च, शावर: साबर' स्तथा।