________________ तृतीयो मर्त्य विभागः 101 * ग्रहणोरुकनाम * प्रतिपुरीषकारी च, ग्रहणीरुक्' प्रवाहिका // 724 // विद्रधि' स्तु भगन्दरो ऽर्बुद श्चापि ज्वरादयः / अनेक व्याधयो लोके, वर्तन्ते दु:खदायकाः // 725 // * वैद्यस्यनामानि ॐ भिषग्' वैद्य स्तु दोषज्ञः प्रायुर्वेदी चिकित्सकः / प्रायुर्वेदिको नामैव, रोगहारी भवेज्जनः // 726 // अगदङ्कार नामा ऽपि, लोकेषु कथ्यते जनैः / * औषधनामानि * औषध' मगद स्तन्त्रं, भैषज्यं चापि भेषजम् // 727 // तथा जायुश्च नामेदं, भेषजस्यैव मन्यते / * चिकित्सामामानि * उपचार' चिकित्सा स्या, दुपचर्या रुप्रतिक्रिया // 728 // * लङ्घननाम 8 . भोजनादि परित्यागो, लङ्घन' मपतर्पणम् / ..विषवैद्यनामानि * . जाङगुलिको' विषवैद्यो२, विषभिषक् च कथ्यते // 726 // .