________________ माचीनास्ते प्रथितमतयो हेमचन्द्रादयोऽपि, . सूरीशानाः सुविहितजने शिक्षणं शुद्धिदायि / एख्यं चक्रुश्चलितजनताधीरताऽऽधानहेर्नु, यस्मान्नाऽन्या सुभगपदवी विद्यते सौख्यदा हि // 4 // शुभाः शालामाला विपुलमुख(गुण)दानैकपटवा, शुमे देशे स्थाप्या प्रवरमनुजैरुन्नतिकराः। मतिग्रामं ग्रामं विविधरचनाशिक्षणकृते, यतस्तेनैव स्याद् रुचिरविनयादिगुणचयः // 5 // गुणो यस्मात्मादु-भवति तदलं शिक्षणमिह, प्रचारात्तस्यैव क्षतिकरगुणानां क्षतिरपि / न यस्मिन् सदम-प्रथनमतुलं दिव्यमुखदं, . परित्याज्यं तदै, श्रमजनकमुच्चैः शुभधिया // 6 // विश्वप्रेमा भवति हृदये यस्य शुद्धात्मनोऽस्मिन्, * सत्यां शिक्षा जगति स नरो दातुमर्हत्यशेषाम् / .. दीव्यार्थानामधिगमकृते शिक्षणस्य प्रचारः, . . कार्यः पुभिः, परहितरतैः सर्वशिक्षकसारः // 7 // विद्वज्जनोक्तवचनान्यपि शिक्षणानि, . . पत्राङ्कितानि रुचिराणि भवन्ति लोके /