________________ // 1 // // 2 // // 3 // // 4 // पू.आ.श्रीरत्नशेखरसूरिविरचितः ॥गुणस्थानक्रमारोहः // गुणस्थानक्रमारोहहतमोहं जिनेश्वरम् / / नमस्कृत्य गुणस्थानस्वरूपं किञ्चिदुच्यते चतुर्दशगुणश्रेणिस्थानकानि तदादिमम् / मिथ्यात्वाख्यं द्वितीयं तु स्थानं सास्वादनाभिधम् तृतीयं मिश्रकं तुर्यं सम्यग्दर्शनमव्रतम् / श्राद्धत्वं पञ्चमं षष्ठं प्रमत्तश्रमणाभिधम् सप्तमं त्वप्रमत्तं चापूर्वात्करणमष्टमम् / नवमं चानिवृत्ताख्यं दशमं सूक्ष्मलोभकम् एकादशं शान्तमोहं द्वादशं क्षीणमोहकम् / त्रयोदशं सयोगाख्यमयोगाख्यं चतुर्दशम् अदेवागुर्वधर्मेषु या देवगुरुधर्मधीः / तन्मिथ्यात्वं भवेद्व्यक्तमव्यक्तं मोहलक्षणम् अनाद्यव्यक्तमिथ्यात्वं जीवेऽस्त्येव सदा परम् / व्यक्तमिथ्यात्वधीप्राप्तिर्गुणस्थानतयोच्यते मद्यमोहाद्यथा जीवो न जानात्यहितं हितम् / धर्माधर्मों न जानाति तथा मिथ्यात्वमोहितः अभव्याश्रितमिथ्यात्वेऽनाद्यनन्ता स्थितिर्भवेत् / सा भव्याश्रितमिथ्यात्वेऽनादिसान्ता पुनर्मता अनादिकालसम्भूतमिथ्याकर्मोपशान्तितः / स्यादौपशमिकं नाम जीवे सम्यक्त्वमादितः एकस्मिन्नुदिते मध्याच्छान्तानन्तानुबन्धिनाम् / आद्यौपशमिकसम्यक्त्वशैलमौलेः परिच्युतः // 6 // // 7 // // 8 // // 9 // // 10 // // 11 // . 50