________________ न पश्चात्कश्चिदायातो, नाग्रे कोऽपि गमिष्यति / पुण्यपापं पुरस्कृत्य, भोग्यमेकाकिना फलम् // 94 // नवानां कर्मणां बन्धा-दावे तदसङ्ग्रहात् / संवरे निर्जरायां च, यतेत मतिमान्सदा ___.. // 95 // अन्तर्मलघटस्येव, बहि: प्रक्षालनादिभिः / न स्यादस्य शरीरस्य, शुचित्वं बाह्यशौचतः // 96 // लोको वैशाखसंस्थान-कटिकरनराकृतिः / तनुस्त्यानानिलाधार-स्तनुस्त्यानार्णवस्थितिः // 97 // स पुनः सप्तधाऽधस्ता-न्मध्ये नानाविधास्पदः / ऊर्ध्वं पञ्चदशोद्देशः षड्धर्मादिव्यवस्थितः 98 // भवेऽतिदुर्लभां लब्ध्वा, सामग्री नृभवादिकाम् / .. कथं सा नीयते ? ध्वंसं, सद्धर्मार्जनवर्जितैः // 99 // भवाब्धौ निपतज्जन्तु-जातपोतोपमः सदा / जिनैर्धर्मः समाख्यातो, निष्कारणकृपापरैः // 100 // यथाप्रवृत्तक्रियया, कर्मभिस्तनुतां गतः / . भजते योग्यतां जीवो, नदीग्रावेव घोलनैः // 101 // वीर्याद् व्यूहं रणेऽरीणां, यथा वीरो भिनत्त्यलम् / अपूर्वकरणाज्जीवः, कर्मग्रन्थिं तथा दृढाम् / // 102 // अन्तर्मुहूर्तमात्रेण, करणेनानिवृत्तिना / कृतान्तरो लभेतासा-वौपशमिकदर्शनम् // 103 // ततः क्रमेण सम्प्राप्य, चारित्रं देशसर्वतः / प्राप्तोत्तरोत्तरगुणो, विशुद्धाध्यवसायतः . // 104 // क्षपकश्रेणिमारुह्य, मोहमुन्मूल्य मूलतः / . घातिकर्मक्षयाज्ज्ञानं, लभते केवलात्मकम् // 105 // 48