________________ इय पुव्वसूरिविरइयसम्मत्तपरूवणत्थगाहाणं / विवरणमेयं भणियं, मंदमईणं विबोहत्थं // 138 // // 1 // . // 2 // . // 3 // श्राद्धवर्याऽम्बप्रसादसंकलितम् // नवतत्त्वसंवेदनम् // अहँ यत्प्राणिभिः पुण्यै-रुपायैरुपयाच्यते / तस्मै कल्याणकन्दाय स्वानन्दाय नमो नमः सम्यत्तत्त्वावबोधाय, साधुवृत्तविशुद्धये / . . जीवादिनवतत्त्वानां, किञ्चिद्वक्ष्यामि लक्षणम् न मोहाद्भयतो लोभा-दाम्नायादुपरोधतः / लोकद्वयविरोधीनि, कुर्यात्कार्याणि बुद्धिमान् विचाराम्भोधिमालोड्य, विमर्शादिप्रकर्षतः / तमोविषं विहायेह, ग्राह्यं तत्त्वामृतं बुधैः तापच्छेदकषावर्तः, स्वर्ण निर्णीयते यथा / . तथा तत्त्वं परीक्ष्येत, गुरुतः शास्त्रतः स्वतः सम्यग्गुरुमुखोद्गीतं, निर्णीतं नयकोविदैः विमर्शतः स्वसंवेद्यं, तत्त्वं तत्त्वं समाश्रय यत्सर्वज्ञसमादिष्टं, यदुक्तं श्रुतनायकैः / रजस्तमोविनिर्मुक्तं, तत्तत्त्वं विद्धि बुद्धितः यः शाश्वतः शिवावासः, कृत्यपारमुपागतः / परमात्मा सदानन्दः, सर्वज्ञः परमेश्वरः शब्दवर्णरसस्पर्श-गन्धादीनामगोचरः / निर्मायोऽनञ्जनज्योति-निर्मिथ्यः परमाक्षरः 40 // 6 // // 7 // // 8 //