________________ // 47 // न यतो वीतरागत्वे, तथा चेष्टोपपद्यते। . . क्लिष्टा प्रयोजनाऽभावा-त्रनु तत् किं न निश्चयः // 42 // तथा नाम स्वभावत्वे, भवोपग्राहिकर्मणः / / कदाचिदुचितैषैव, ततः किं नोपपद्यते ? // 43 // साक्षादगम्यमानेषु, ततस्तत्र विनिश्चयः / त एवं नैवमिति वा, छद्मस्थस्य न युज्यते // 44 // न चात्र यस्तु सर्वज्ञः, स वक्ता नेति शक्यते / वक्तुं तथाऽप्रसिद्धत्वा-दुच्यते चेन्न युक्तिमत् // 45 // तदभावादथावृत्ति-स्तव हेतोर्न मानतः / स सिद्ध इति सन्यायाद्, व्यतिरेको न पुष्कलः // 46 // संक्षेपादिति सर्वज्ञः, सन्न्यायोक्त्या निदर्शितः / . सामान्येन विशेषस्तु, ज्ञेयस्तद्वाक्यतो बुधैः वाक्यलिङ्गा हि वक्तारो, गुणदोषविनिश्चये। .. क्रियालिङ्गा हि कर्तारः, शिल्पमार्गे यथैव हि / // 48 // दृष्टशास्त्राविरुद्धार्थं, सर्वसत्त्वसुखावहम् / / मितं गम्भीरमाह्लादि, वाक्यं यस्य स सर्ववित् // 49 // एवम्भूतं तु यद्वाक्यं जैनमेव ततः स वै। सर्वज्ञो नान्य एतच्च, स्याद्वार्दोक्त्यैव गम्यते // 50 // न नित्यैकान्तवादे यद्, बन्धमोक्षादि युज्यते / अनित्यैकान्तवादेऽपि बन्धमोक्षादि युज्यते // 51 // जीवः स्वभावभेदेन, बध्यते मुच्यते च सः / ऐक्यापत्तेस्तयोनित्यं, तथा बन्धादिभावतः // 52 // तयोरत्यन्तभेदेऽपि, न बद्धो मुच्यते क्वचित् / एवं च सर्वशास्त्रोक्तं, भावनादि निरर्थकम् // 53 // , 283