________________ // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // अवश्यं जातिनामभ्यां, स निर्देश्यः परैरपि। निर्दिष्टश्चेत् स वक्तृत्वा-दसर्वज्ञः प्रसज्यते सर्वो विशेषः सर्वज्ञों, वक्तृत्वेन ह्यपोद्यते / अपोदितविशेषं च, सामान्यं क्वावतिष्ठताम् ? न वक्तृत्वमदेहस्य, न चासौ कर्मणा विना / न तद्रागादिशून्यस्य, वक्तृत्वं तन्निबन्धनम् विवक्षया च वक्तृत्वं, सा चेच्छाभावतो हि यत् / रागस्ततश्च वक्तृत्वात्, न सर्वज्ञ इति स्थितम् यच्चोक्तं किञ्च जात्यादि-युक्तत्वादेवमादिना / असर्वज्ञत्वसंसिद्ध्यै, प्रमाणं तत् परीक्ष्यते असाविति न सर्वज्ञो, वक्तृत्वाद् देवदत्तवत् / . तत्र किञ्चिज्ज्ञ इष्टश्चेत्, न ज्ञातं तेन किं मतम् ? यदि यागादिविधयो, मिथ्यार्थत्वेन निश्चिताः। . प्रोक्ता हिंसादयः सर्वे, यतो दुर्गतिहेतवः / / अन्यत्वं च विरोधो वा, नबर्थश्चेद्विकल्प्यते।। यमपेक्ष्य विरुद्धोऽसा-वन्यो वा स हि सर्ववित् विपरीतज्ञ इष्टश्चे-न्नन्वनेकान्तदर्शनम् / ... प्रमाणसङ्गतं तेन, नैतदप्युपपद्यते इत्येवं कुत्सितज्ञश्चेत्, कुत्सिता नरकादयः / / तज्ज्ञानसाधने तस्य, भवेदिष्टप्रसाधनम् अथ किञ्चिन्न जानीते, तादृग्वक्ता कथं भवेत् ? / एवं तावत् प्रतिज्ञार्थः, सर्वथा नोपपद्यते परप्रकल्पितस्यैव, व्यवच्छेदोऽथ साध्यते। तदयुक्तं यतः शब्दो, न ते भावं व्यपोहते 281 // 24 // // 25 // // 26 // // 27 // // 28 // / / 29 //