SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ श्री राजेन्द्र सुबोधनी आहोरी-हिन्दी-टीका 2-2-3-3-2 (500) 425 पाठ वा यावत् बीजानि वा परिचाटितवन्तः वा परिशाटयन्ति वा परिशाटयिष्यन्ति वा अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले न उच्चारप्रश्रवणं व्युत्सृजेत् / स: भिक्षुः० स: यत् इह खलु गृहपतिः वा गृहपतिपुत्रा वा शालीन् वा व्रीहीन् वा मुद्गान् वा माषान् वा कुलत्थानि वा यवान् वा यवयवान् वा उप्तवन्तः वा वपन्ति वा वपिष्यन्ति वा अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले न उच्चार० / सः भिक्षुः वा यत्० आमोकानि वा घासाः वा भिलुकानि वा विजलानि वा स्थाणव: वा कडवाणि वा प्रगतः वा दरी वा प्रदुर्गाणि वा समानि वा विषमाणि वा अन्यतरस्मिन् तथाप्रकारे न उच्चार-प्रश्रवणं व्युत्सृजेत्। स: भिक्षु:० सः यत् पुनः स्थण्डिलं जानीयात् - मानुषरन्धनानि वा महिषकरणानि वा वृषभकरणानि वा अश्वकरणानि वा कुर्कुटकरणानि वा मर्कटकरणानि वा गजकरणानि वा लावककरणानि वा चटककरणानि वा तित्तरिककरणानि वा नि वा कपिञ्जलकरणानि वा अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले न उच्चार। सः भिक्षुः वा सः यत् पुनः जानीयात्- वैहानसस्थानेषु वा गृद्धपृष्ठस्थानेषु वा तरुपतनस्थानेषु वा मेरुपतनस्थानेषु वा विषभक्षणस्थानेषु वा अग्निपतनस्थानेषु वा अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले न उच्चारप्रश्रवणं व्युत्सृजेत्। सः भिक्षुः० सः यत् आरामेषु वा उद्यानेषु वा वनेषु वा वनखण्डेषु वा देवकुलेषु वा सभासु वा प्रपासु वा अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले न उच्चारप्रश्रवणं व्युत्सृजेत् / सः भिक्षुः वा० स: यत् पुन: जानीयात्- अट्टालिकेषु वा चरिकेषु वा द्वारेषु वा गोपुरेषु वा अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले न उच्चारप्रश्रवणं व्युत्सृजेत्। सः भिक्षुः वा० सः यत् जानीयात्- त्रिकेषु वा चतुष्केषु वा चत्वरेषु वा चतुर्मुखेषु वा अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले न उच्चार० / सः भिक्षुः वा० स: यत् जानीयात्- अङ्गारदाहेषु वा क्षारदाहेषु वा मृतकदाहेषु वा मृतकस्तूपिकासु वा मृतकचैत्येषु वा अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले न उच्चारप्रश्रवणं व्युत्सृजेत् / स: यत् पुन: जानीयात्- नदी-आयतनेषु वा पङ्कायतनेषु वा ओघायतनेषु वा सेचनपथि वा अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले न उच्चार० / स: भिक्षुः वा० सः यत् पुनः जानीयात्- नवासु वा मृत्तिकाखनिषु वा नवासु
SR No.004438
Book TitleAcharang Sutram Part 04
Original Sutra AuthorN/A
AuthorJayprabhvijay, Rameshchandra L Haria
PublisherRajendra Yatindra Jainagam Hindi Prakashan
Publication Year
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy