________________ 336] श्रीसिद्धहेमशब्दानुशासन 0 6 पा० 3 सू० 90-94 - प्रावृष एण्यः / / 6 / 3 / 92 // म. वृ०-प्रावृष्शब्दाच्छेथे 'एण्यः' स्यात् / अणोऽपवादः। प्रावृषि भवः-प्रावृषेण्यः / जाते तु परत्वादिक एव 'प्रावृष इक:' (6 / 3 / 99) इत्यनेन], प्रावृषिकः // 12 // स्थामाजिनान्ताल्लुप् // 6 / 3 / 93 / / म. वृ०-स्था जनशब्दान्तान अजिनान्ताच्च परस्य शैषिकस्य प्रत्ययस्य 'लुप्' स्यात् / अश्वत्थामा, सिंहाजिनः // 9 // अमावास्या, त्रयोदशी, चतुर्दशी, पञ्चदशी,पौर्णमासी, प्रतिपद्,शश्वत् इति सन्ध्यादिगणः। सन्धौ साध्वी,'सत्र साधौं' (712 / 15) / 'अमावास्याशब्दः, अमावास्यायांभवः,-- सन्ध्यादिद्वारेण 'भर्तुः' इत्यने. नाण् / '"एकदेशविकृतम् ( अनन्यवत् )' इति न्यायात् अमावस्याशब्दादपि अण् ,तत्र अमावस्य इति प्रयोगोभवति। 'ऋत्रोवर्णदोसिसुसशश्वदकस्मादि०' (74 / 71) इति सूत्रे अशश्वत् इति प्रतिषेधात् , कोऽर्थः ? अशश्वत् इति वर्जनबलात् , 'वर्षाकालेभ्यः' (6 / 3180) इत्यनेन इकणपि भवति, ‘भर्तुः' इत्यनेनाण् इति रूपद्वयम्- शाश्वतम् , शाश्वतिकम् / 'भर्तुसन्ध्यादेरण' इति सूत्रे यत् यथाविहितं प्रत्यय इति नोक्तम् , अण भवति इत्युक्तम् , तत् स्वातिराधाऽऽापौर्णमासीभ्य ईयबाधनार्थम् , * किं च यथाविहितमित्युच्यमाने हि 'दोरीयः' (6 / 3 / 32) इत्यनेन ईयोऽपि प्राप्नुयात् इति अण् इत्यु. क्तम् / व्यावृत्त्युदाहरणेषु स्वातीयम्, राधीयम् , आर्दीयम् इत्यत्र ईयः प्रातः / 'सातेरिदमुदयस्थानम् स्वातीयम् / / 89 // संवत्सरात्फलपर्वणोः // 6 / 3 / 90 // म० वृ०-संवत्सरात् फले पर्वणि शेषेऽर्थे'ऽण' स्यात् / सांवत्सरं फलम् , सांवत्सरं पर्व / फलपर्वणोरिति किम् ? सांवत्सरिकं श्राद्धम् / / 90 / / हेमन्ताद्वा तलुक् च // 6 / 3 / 91 // म० वृ०-हेमन्ताद् ऋतुविशेषवाचिनः शेषे'ऽण वा' स्यात् , तद्योगे च तकारस्य वा लुक् / हैमनम् , हैमन्तम् , हैमन्तिकम्, 'पूर्वहैमनम् // 11 // अव०-'भ' (6 / 3 / 89) इत्यनेन नित्यमणि प्राप्ते विभाषेयम् / तथा च त्रैरूप्यं-हैमनम् , हैमन्तम् , हैमन्तिकम् / तथा तदन्तविधिना पूर्व हैमनमित्यपि सिद्धम् / / 91 // प्रव. 'अश्व इव तिष्ठतीति अश्वत्थामा, 'मन्वक्वनिप्र' (5 / 1 / 149) मन , अश्वस्येव स्थाम बलं यस्य (इति) वा, 'पृषोदरादयः' (3:2 / 155) इत्यनेन सस्य तकारः ; अश्वत्थाम्नोऽपत्यम् , 'अः स्थाम्नः' (6 / 1 / 22) इति अः प्रत्ययः,' 'मः स्थाम्न' इति सूत्रे इत्थं प्रत्ययः (?) भत्र तु सूत्रे अश्वत्थामनि भवो जातो वा- 'अः स्थाम्नः' (6 / 1 / 122) अः, 'स्थामाजिन' इति अप्रत्ययो लुप्यते, प्रथमासिः, 'निदीर्घः (1 / 4 / 22) / सिंहाजिने भवो जातो वा, भवे' (6 / 3 / 1222) भण् // :3 / / तत्र कृत-लब्ध-क्रीत-सम्भते // 6 / 3 / 94 // म.वृ०-अणादयः एयणादयश्च सविशेषणा अत्रानुवर्त्तन्ते / तत्रेति सप्तम्यन्तात् कृते, 'लब्धे, *क्रीते, "सम्भूते चार्थे 'यथायोगमणादय' एयणादयश्च' स्युः / "माथुरः, "औत्सः, 'नादेयः, राष्ट्रियः१० ( 'राष्ट्रादियः' ( 6 / 3 / 3 ) / तत्रेति किम् ? मैत्रेण क्रीतः / / 94 // अव०-सूत्रार्थेषु सप्तम्यन्तात् इति सर्वत्र ज्ञातव्यम् / तथा यत् अन्येनोत्पादितं तत्कृतम् / उयच उदकपूर्वकदानेन लाभः प्रतिग्रहः अनुग्रहः प्रतिग्रह अनुग्रहेण प्राप्तं तत् लब्धम् (?) / यत्त मूल्येन गृहीतं तत्क्रीतम् / यत् 'सम्भाव्यते घटते संमाति ना तत् / * पत्र 'किञ्च' इति पाठोऽधिकः प्रतिभति / प्रपत्र "मः स्थाम्न: इति सूत्रे इत्थं प्रत्ययः अत्र तु सूत्रे" इति पाठोऽधिकः प्रतिभाति /