________________ 298 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवरिभ्यामलते __अकालवाचिन्युत्तरपदेऽव्ययीभावे सहस्य सः स्यात् सब्रह्म साधूनाम्, सवृत्तं सुविहितानाम्, सचक्रं धेहि, सतृणमभ्यवहरति / सलोकबिंदुसारमधीते / अकाल इति किम् ? सह पूर्वाह्नः शेते // 146 // अ० ब्रह्मणः संपत् सब्रह्म साधूनाम्, तथाहि ‘विभक्तिसमीपे' (3 / 1 / 39) त्याद्यव्ययीभाव समाससूत्रे संपत् कोऽर्थः सिद्धिः ब्रह्मणः संपत् / सवृत्तम् संपन्नं वृत्तम् इत्युदाहरणार्थः, संपत्त्यर्थेऽव्ययीभावः / तथा चक्रेण सह एककालम् चक्राणि वा युगपद्धेहि इति वाक्यम्-सचक्रम् / अत्र युगपद्यर्थेऽव्ययीभावः / तथा तृणैः सह सतृणं . अभ्यवहरति, कोऽर्थः, ? खादन् न किंचित्त्यजतीत्यर्थः / अत्र साकल्यार्थेऽव्ययीभावः / तथा सषट्जीवनिकमधीते श्रावकः / षट्जीवनिकामंतं कृत्वा अधीते इति वाक्यम् / लोकबिन्दुसारं चतुर्दशमं पूर्वं अंतमधीते / अत्रांतार्थेऽव्ययीभावः। पूर्वमह्नः पूर्वाह्न 'सर्वांशसंख्याव्ययात्' इति अट् समासांतः / अह्न आदेशः / 'अतोऽहस्य' (2 / 3 / 73) इति णत्वं / पूर्वाह्नमिति सिद्धम् // 146 / / ग्रन्थाऽन्ते // 3 // 2 // 14 // ग्रन्थान्तवाचिन्युत्तरपदेऽव्ययीभावे सहस्य राः स्यात् / सकलं ज्योतिषम् / समुहर्त्तमधीयते / कलादिशब्दाः कालविशेषवाचिनोपि तत्सहचारिषु ग्रन्थेषु वर्त्तत इति ग्रन्थान्तवाचित्वमुत्तरपदस्य // 147 // अ० ग्रन्थस्यान्ते कलार्थमारम्भोऽयं कलामन्तं कृत्वाऽधीते सकलं / मुहूर्तमन्तं कृत्वाऽधीते अत्रान्तार्थेऽव्ययीभावः // 147 // ___ नाशिष्यगोवत्सहले // 3 / 2 / 148 // . गवादिवर्जे उत्तरपदे आशिषि गम्यमानायां सहस्य सादेशो न स्यात् / स्वस्ति गुरवे सह शिष्याय / भद्रं संघायाचार्याय / अगोवत्सहले इति किम् ? स्वस्ति भवते सगवे सहगवे एवं सवत्सायेत्यादि // 18 // अ० सगवे, सवत्साय, सहलाय इति सर्वत्र सहस्य सोऽन्यार्थे इति विकल्पेन सहस्य सादेशः // 148 // समानस्य धादिषु // 3 / 2 / 149 // धादिषूत्तरपदेषु समानस्य स आदेशः स्यात् / समानो धर्मोऽस्य सधर्मः, समानं नामास्य सनामा। कथं समानोदरे जातः सोदर्यः ? समाने तीर्थे वसति सतीर्थ्यः, 'सोदर्यसमानोदयौं' (6 / 3 / 112) 'सतीर्थ्यः' (6 / 4 / 78) इति निपातनात् भविष्यति // 149 // अ० समानो धर्मोऽस्य, धर्म जातीय नामन् गोत्र रूप स्थान वर्ण वयस् वचन ज्योतिस् जनपद रात्रि नाभि बंध पक्ष गंध पिंड देश कर लोहित कुक्षि वेणि इति धर्मादयः / बहुवचनमाकृतिगणार्थं एवं समाना जातिरस्य सजातीयः, 'जातेरीयः सामान्यवति' (7 / 3 / 139) इति सूत्रेण ईयः प्रत्ययः सोदर्य इत्यत्र ‘सोदर्यसमानोदयौँ' (6 / 3 / 112) इत्यनेन यप्रत्ययः / निपातनात् समानस्य सादेशः / / 149 / / सब्रह्मचारी // 3 / 2 / 150 // सब्रह्मचारीति निपात्यते / सब्रह्मचारी // 150 // अ० समाने ब्रह्मचारी सब्रह्मचारी, अथवा समाने ब्रह्मणि समाने आगमे समाने गुरुकुले व्रतं चरतीति ब्रह्मचारी, निपातनादेवाऽत्र व्रतशब्दस्य लोपः कार्यः // 150 //